SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३४४ श्रीअजितप्रभुचरितम् सर्गः-५ अम्ब ! तत् प्रेमलेखं मे, भर्तुः सौभाग्यशेवधेः । मत्कार्यं हृदये धृत्वा, तूर्णं प्रहिणु तद्यथा ॥ ८२ ॥ 'विप्रलम्भाग्निना दह्यमानाऽस्मि सुभगोत्तम ! । अद्याप्युपेक्षां तनुते, समर्थोऽपि कथं भवान् ? ॥८३॥ निष्कृत्रिमस्नेहवतीं, सम्प्राप्तां विषमां दशाम् । नाथ ! नो वेत्सि मां यत्तत्, प्रेम्णस्तस्योचितं किमु ? ' ॥८४॥ इति प्रेमरसार्द्रा तां, वाचं श्रुत्वार्जुर्माना । स्थविरा कुटिलं तस्या, अजानाना हृदब्रवीत् ॥८५॥ 'मृगाक्षि ! त [व] स प्रेयान् प्राप्तोऽस्ति मम मन्दिरे । मा स्म त्वमुद्वहः खेदमानन्दं धेहि मानसे' ॥ ८६ ॥ ततः सरभसं दानं प्रदाय पारितोषिकम् । पतित्वा पादयोस्तस्याः साऽवदच्छाठ्यशेवधिः ॥८७॥ , मातर्जीव चिरं कान्तं मम मेलय सत्वरम् । यथाऽङ्गे शमयामि द्राक्, तापं विरहवह्निजम् ॥८८॥ मनोऽस्त्युत्कण्ठितं बाढं, दिष्ट्या पल्लीश्वरोऽप्यसौ । गतोऽद्य यक्षयात्रायां तदद्य प्रियमानय ॥ ८९ ॥ " तत: स्थविरया वेश्मप्राप्तया वरुणोऽखिलम् । वृत्तं तज्ज्ञापितो बाढं, स्वचेतसि विसिष्मिये ॥ ९०॥ प्रदोषे वृद्धया दर्श्यमानाऽध्वा प्रस्खलत्पदः । विस्फुरद्वामनेत्रोऽथ, स तस्याः सदनं ययौ ॥ ९१ ॥ १. सरलमानसा । २. ‘प्रददौ प्रियमानसे' इति पु. प्रे. ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy