________________
वरुणवर्मणः कथा
३४३
सनिःश्वासं जगादाऽथ, स्थविरा 'सखि ! चेदतः । जायेत निर्गमोपायस्तव तत् खलु सुन्दरम्' ॥७२॥ परा बाष्पभरक्लिन्नदृगगादीत् सगद्गदम् । क्वेद्वंशि मम भाग्यानि, व्यसनाद्यच्छुटाम्यतः ॥७३।। मिलामि च द्रुतं मातापित्रोर्बन्धुततेरपि । पत्युश्च विश्वविख्यातविक्रमस्य गुणाम्बुधेः' ॥७४॥ श्रुत्वेति प्राञ्जला वृद्धा, वेगादागत्य मन्दिरम् । वरुणायाऽखिलं वृत्तं, तत् सहर्षमचीकथत् ॥७५॥ स तु दध्यावहो ! तस्याश्छद्मदमतिदुर्गमम् । क्व स पल्लीपतौ रागः ?, क्व च कैतवगीरियम् ? ॥७६।। चन्द्रा-ऽर्क-राहु-ताराणां, चरितं मतिशालिभिः । सुज्ञानं प्रमदानां तु, दुर्ज्ञानं दम्भसद्मनाम् ॥७७॥ अन्येधुर्वृद्धया गूढं, भावं जिज्ञासमानया । सोचे 'स[मा] ययौ भद्रे !, प्रवृत्तिः प्रेय[स]स्तव' ॥७८॥ श्रुत्वा तन्मायिनी साऽपि, साश्रुनेत्रा ससम्भ्रमम् । जगाद 'सत्यमेतत् किं, प्रतारयसि वा मुधा ॥७९॥ यदि सत्यं तदा ब्रूहि, कीदृग् वार्ता समाययौ ?' । स्थविराऽब्रूत ‘भर्त्ता ते, भ्राम्यति त्वां विलोकयन्' ॥८०॥ अथाऽवदच्छीलवती, 'भवेन्मातरदोऽपि किम् । दृग्भ्याममूभ्यां स प्रेयान्, कदाचिदपि दृश्यते ॥८१॥ १. शीलवती । २. दुःखाद् ।