________________
३४२
श्रीअजितप्रभुचरितम् सर्गः-५
नेयत्कालं हियैवाख्यमित्युक्त्वा सोऽखिलं निजम् । अवग् वृत्तं ततः सोचे, 'वत्सार्थोऽयं सुदुष्करः ॥६१॥ यदेकाकी भवानत्र, पल्लीयं चातिदुर्गमा । महाबलश्च पल्लीशो, दूरे ग्रामोऽपि तावकः ॥६२॥ समग्रः स्त्रीजनः प्रायः, स्फुटकुटैकशेवधिः । विशेषात् त्वत्प्रिया शीलवती दुःशीलतावधिः ॥६३।। तथाऽपीदं शुभं चक्रे, स्ववृत्तं ज्ञापिताऽस्मि यत् । ग्रहीष्ये वल्लभायास्ते, नचिरादाशयं खलु' ॥६४॥ इत्युक्त्वा स्थविरा शीलवत्या गेहे गमागमौ । प्रारभ्य विविधां गोष्ठी, नित्यं चक्रे तया सह ॥६५।। कथान्तरेऽन्यदा वृद्धाऽपृच्छत्तां 'वद सुन्दरि ! । क्व ते वासः ? कथं चासीत् पल्लीशेन समागमः ? ॥६६॥ पितरौ तव कुत्र स्तः ?, श्वशुरावपि कुत्र ते ? । प्रियस्ते प्रेमवान्नो वा ?, धीरो वा कातरोऽथवा ? ॥६७।। किमत्र सुखिताऽसि त्वं, यद्वा श्वशुरवेश्मनि ? । पितृसद्मनि वा भद्रे !, यद् व्याख्येयं तदावद' ॥६८॥ अथाऽकृत्वाऽपि प्रश्नानां, तेषामुत्तरमेषका । प्रपञ्चचतुराऽवादीदिति निर्दोषतोचितम् ॥६९॥ 'मुग्धे ! न वेत्सि नारीणां, पितरौ श्वशुरौ पतिम् । मुक्त्वाऽपि जीवितं यत्तदधिकं मरणादपि ॥७०॥ अबला विषमावस्थापतिता शरणोज्झिता । आत्मानमीदृग्विधिना, जीवयामि करोमि किम् ?' ॥७१॥