________________
वरुणवर्मणः कथा
३४१
सत्कृत्याऽऽसनदानेन, वत्सला पृच्छति स्म सा । कुत आयातवान् ? वत्स !, क्व गन्ता ? किं प्रयोजनम् ? ॥५१॥ वरुणोऽप्यब्रवीन्मातः !, पराभूतः स्वबन्धुभिः । दूरदेशात् समायातो, देशेऽमुष्मिन् भ्रमन् [भ्रमन्] ॥५२॥ अनुजानासि चेदम्ब !, दिनानि कतिचित्तदा । तिष्ठाम्यत्राऽथ साऽप्यूचे, 'निश्चिन्तस्तिष्ठ पुत्रवत्' ॥५३।। ततस्तया सुतस्थित्या, शश्वत् स्थानाशनादिभिः । सत्कृतोऽसौ सुखं [त]स्थावुपायान्वेषणापरः ॥५४॥ स्थविरा तं चिन्तया क्रान्तं, विलोक्याऽन्येधुरादरात् । पप्रच्छ 'वत्स ! ते बाधा, कीदृशी हृदि विद्यते ? ॥५५॥ कश्चित् प्रियमनुष्यस्य, वियोगस्त्वां नु बाधते ? । उताहो वैरसम्बन्धो, दुःसाधो बत कश्चन ? ॥५६।। दीर्घोष्णा भवतो वक्त्रे, निःश्वासाः प्रसरन्ति यत् । यच्च हस्तस्थदण्डेन, लिखस्युर्वी मुहुर्मुहुः ॥५७॥ चिरं यच्च हृदा किञ्चिद्, ध्यात्वा दष्टाधरः क्रुधा । रक्तनेत्रः खड्गलतां, मुहुर्मुहुरवेक्षसे ॥५८॥ तदस्ति कारणं किञ्चिनिश्चिनोमीति चेतसा । अगोप्यं यदि तद्वत्स !, स्वजनन्यै निवेदय' ॥५९॥ अथ किञ्चिद्विहस्याऽसौ, स्माह 'गोप्यं न किञ्चन । स्वेबुद्धिज्ञातहृदयाकूताया अम्ब ! ते पुरः ॥६०॥
१. स्वमतिज्ञातहृदयाशयया ।