________________
३४०
श्री अजितप्रभुचरितम् सर्गः -५
समस्तान्तःपुरप्रष्ठां, तां विधाय च सन्ततम् । विलासान् विविधांस्तन्वन् प्रेमोत्कर्षमदर्शयत् ॥४०॥ प्रति पल्लीशमुक्तानि, तस्यास्तानि वचांसि तु । वरुणः शुश्रुवानुद्यद्विवेको हृद्यचिन्तयत् ॥४१॥ [चा]पल्यं तडितां धर्मः, सरितां नीचगामिता । क्रूरत्वं सर्पिणीनां वा, दौ: शील्यं हरिणीदृशाम् ॥४२॥ प्रमदास्वपि ये मूढा, विश्वस्य सुखमासते । ग्रसित्वा कालकूटं ते, निश्चिन्ताः खलु शेरते ||४३|| अहो ! धार्यमहो ! पापमहो ! अस्या: कृतघ्नता । निष्ठुरत्वमहो ! रागोऽप्यहो ! पल्लेरधीश्वरे ॥४४॥ इयं हि स्वैरिणी पूर्वमप्यनिष्टाऽभवन्मम । अकृच्छ्रेणैव तद्दिष्ट्या, व्याघ्रीवदनतोऽच्छुटम् ॥४५॥ इति सञ्चिन्तयंस्तस्या, मोचने स पराङ्मुखः । सुहृद्भिरेवमन्येद्युरुपालभ्यत निर्भरम् ॥४६॥ गृहीतां तस्करैः पत्नीं, निजां जानन् महामते ! | तस्याः किं मोचनोपायं, न चिन्तयसि चेतसा ? ॥४७॥
पद्मिनीव रवेरस्ते, तटिनीव घनात्यये ।
सा वराकी भवत्सङ्गाभावे यास्यति कां दशाम् ? ॥४८॥ एवं तैः प्रेरितोऽनिच्छन्नपि चित्तेन स द्रुतम् । प्रियां [मो]चयितुं प्राप्तस्तां पल्लीमतिभीषणाम् ॥४९॥ भ्रमंस्तत्र सुमित्रा ख्यस्थविराया निकेतनम् । प्राप्तो मातुरिवैतस्याः, प्रणामं चाऽकरोत् कृती ॥५०॥