SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ वरुणवर्मणः कथा सा क्रमात् कुलमर्यादामुल्लङ्घ्याऽथैकमन्दिरम् । अत्यन्तं कामविवशा, स्वैरिणीभावमा [ पि]पत् ॥३०॥ मधुरैर्वचनैः शश्वच्छिक्षिताऽपि न सत्पथम् । प्रतिपेदे महापापा, प्रियेणोपेक्षिता ततः ॥३१॥ अन्यदा सिंहदत्ताख्यः, पल्लीनाथो महाभुजः । वपुःशोभापराभूतर्कमलातनयद्युतिः ||३२|| बहुचौरपरीवारो, मूषितुं तत्पुरं रयात् । पपाताऽऽकस्मिक[म] पत्रासिताशेषनागरः ||३३|| [ युग्मम् ] , मुमुषुः स्वेच्छया स्तेनाः पुरं त्रातुरभावतः । स्वयं विवेश पल्लीशो, गृहं वरुणवर्मणः ||३४|| वेश्मैकदेशे वरुणो, निलीयाऽतिष्ठदात्मना । दुःशीला सा तु पल्लीशं दृष्ट्वा रक्तेत्यभाषत ॥३५॥ 'त्वया मोषणसामर्थ्यं, नन्विदं शिक्षितं कुतः ? | चेतोऽपि येन मुष्णासि, मदीयं पल्लीनायक ! ||३६|| यदि वा कोऽप्ययं स्नेहः, प्राच्यजन्मसमुद्भवः । त्वत्सङ्गमसमुत्कानि, सीदन्त्यङ्गानि यन्मम ॥३७॥ प्रार्थनासुरंशाखिस्तदनुकम्पापरायणः । विषमेषुव्यथामग्नां, सत्वरं मां समुद्धर' ॥३८॥ इति प्रेमवचोजातानुरागः पल्लिनायकः । तां गृहीत्वा धनस्वर्णपूर्णपल्लि समासदत् ॥३९॥ १. कामदेवः । कल्पवृक्षः ! | ३३९
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy