________________
३३८
श्रीअजितप्रभुचरितम् सर्गः-५ अथ ते क्वचनाऽरण्ये, तारुण्यभरशालिनम् । स्थिरध्यानं जिताशेषहषीकं ददृशुर्मुनिम् ॥१९॥ ततश्च सम्मदोद्भूतपुलकास्तं मुनीश्वरम् । प्रणत्य परया भक्त्या, पप्रच्छुः स्वच्छमानसाः ॥२०॥ 'साधुधुर्य ! भवस्याऽस्याऽसारताऽस्माभिरप्यहो ! । बुध्यते न पुनस्त्यक्तुं, किञ्चनापि हि शक्यते ॥२१॥ जानाना अपि [ल]क्ष्म्यादि, शरदभ्रचलाचलम् । ऋते बाह्यं निमित्तं नो, विरज्यन्ते बताऽङ्गिनः ॥२२॥ श्रीपूज्या ! भवतां केन, निमित्तेनेदृशी मतिः । यौवनेऽपि भवत्यागमयी जज्ञे निवेद्यताम्' ॥२३॥ साधुः प्रोवाच 'भोश्चक्रिनन्दनाः ! संसृताविह । ज्ञानालोकोज्झिता जीवा, नेक्षन्ते स्वहितं क्वचित् ॥२४॥ अहो ! असुमतां जाड्यमहो ! मोहः सुदुर्जयः । सत्यप्यर्हद्वचःपोते, यन्मज्जन्ति भवाम्बुधौ ॥२५॥ केचिदेव मह्यु(हा)सत्त्वास्तत्त्वावगतिशालिनः । स्वयं बाह्यनिमित्ताद्वा, विरज्यन्ते भवादतः ॥२६॥ श्रुत्वा प्राग्जन्मजं कान्तादुर्वृत्तं मुनिवक्त्रतः । विरक्तोऽस्मि यथा चक्रिसूनवः ! श्रूयतां तथा ॥२७॥ सुप्रतिष्ठितसज्ञेऽभूत्, पुरे विपुलविक्रमः । धीमान् वरुणवर्माख्यः, क्षत्रवंश्यो लसद्गुणः ॥२८॥ तस्यासीच्छीलवत्याख्या, नवयौवनमञ्जुला । लावण्यवसतिः प्राणवल्लभा सुकुलोद्भवा ॥२९॥