________________
३३७
सगरपुत्राणां स्वेच्छाविहारः तथाहिचकम्पे काश्यपी कामं, सम्मुखः पवनो ववौ । रजसः करकाणां च, चण्डावृष्टिरजायत ॥९॥ वाशिरे शिवाः सूर्यदिशि दक्षिणपार्श्वगाः । चिल्लाश्च मण्डलीभूता, नीचकैर्बभ्रमर्दिवि ॥१०॥ मार्तण्डमण्डलं केतुशताकुलमलोक्यत । दृश्यमानान्तरच्छिद्र, चन्द्रमण्डलमप्यभूत् ॥११॥ निर्मदा अभवन् सद्यो, गन्धदन्तावला अपि । आस्यान्तरात्तथाऽश्वानां, धूमलेखा विनिर्ययुः ॥१२॥ अवमत्याऽखिलानेतानुत्पातान् सगरात्मजाः । भवितव्यतया नुन्नाः, कृतकौतुकमङ्गलाः ॥१३।। नानालङ्कारसंशोभिशरीराः शुद्धवाससः । गजा-ऽश्वादीनि यानानि, यथाकाममधिष्ठिताः ॥१४॥ स्त्रीरत्नवर्जमखिलैरनुमत्या नरेशितुः । रत्नैरनुगताश्चित्रशस्त्रभ्राजितपाणयः ॥१५॥ मूनि श्वेतातपत्रेण, भान्तोऽद्भुतचमूवृताः । वाद्यनादाचितदिशः, प्राचलनचलश्रियः ॥१६॥ कलापकम् ॥ सामोदं ते नगोद्यान-इदिनीषु यदृच्छया । खेलन्तोऽस्खलितं भ्रमुरभ्रमा भरतावनौ ॥१७॥ विनीतान्नृपतीन् मार्गे, सदाऽकार्युर्यथोचितम् । दुर्विनीतान्न्यकार्पश्चाऽतानिषुर्भूतले यशः ॥१८॥ १. गन्धहस्तयः । २. शोभमानाः ।