SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः अथाऽन्येद्युः कुमारास्ते, कुमारोपमतेजसः । तातं विज्ञपयामासुः, सुधर्माभसभास्थितम् ॥१॥ तात ! त्वया नृपाः सर्वे, भरतक्षेत्रवर्त्तिनः । लीलयैव पदातित्वं गमिता अमितौजसः ||२|| देवा मागध नाथाद्याः, शश्वदादेशकाङ्क्षिणः । सेवां सेव्यस्य ते तात !, दासेरा इव तन्वते ||३|| त्वत्कीर्त्तिः सकलामुर्वी, भ्रान्त्वा श्रान्तेव वारिधेः । तीरकान्तारवीथीषु, विश्राम्यति महीपते ! ||४|| कृतकृत्यस्य ते कृत्यशेषं किञ्चिन्न विद्यते । त्वत्पुत्रतां वयं स्वामिन् !, ज्ञापयामो विधाय यत् ॥५॥ किन्तु तात ! त्वया भूमिपीठेऽस्मिन् साधितेऽखिले । स्वेच्छाविहारतोऽस्माकं त्वत्पुत्रत्वं प्रकाशताम् ॥६॥ अथ तेऽनुमता राज्ञा, धन्यम्मन्या महस्विनः । उत्कण्ठिताः प्रयाणाय, दुन्दुभीन् पर्यताडयन् ॥७॥ तेषां तदानीमुत्पाता, दुरन्ता ऐनः प्रदर्शकाः । नानारूपा अजायन्त, प्रयाणप्रतिषेधकाः ॥८॥ १. अशुभप्रदर्शकाः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy