________________
३३३
मेघवाहन-सहस्राक्षयोः पूर्वभवः प्रभुः स्माह 'पुराऽभूस्त्वं, प्रकृत्या करुणापरः । स्फुरद्दानगुणख्यातः, परिव्राड् रम्भकाभिधः ॥४३६।। तदा च शश्यावल्याह्नौ, शिष्यौ तेऽभवतामिमौ । आवलिस्तु विनीतत्वान्नितान्तं तव वल्लभः ॥४३७।। अन्येधुरेकां गोधेनु, राया क्रीणन्तमावलिम् । शशी गोस्वामिनो भेदं, कृत्वाऽपास्थत् कठोरहृत् ॥४३८॥ स्वयं चिक्राय च ततस्तत्र व्यतिकरे तयोः । प्रवृत्ते कलहे घोरे, निजघ्ने शशिनाऽऽवलिः ॥४३९॥ शशी चिरं भवं भ्रान्त्वा, जातोऽयं मेघवाहनः । आवलिस्तु सहस्त्राक्षस्तद्वैरमनयोरिदम् ॥४४०॥ रम्भकोऽपि शुभाः प्राप्य, गतीर्दानप्रभावतः । चक्रयभूस्त्वं सहस्राक्षे, स्नेहस्ते प्राक्तनस्ततः' ॥४४१।। अथ रक्षःपतिर्भीमो, निषण्णस्तत्र संसदि । उत्थायाऽऽश्लिष्य च प्रीत्या, बभाषे मेघवाहनम् ॥४४२॥ 'पुष्करद्वीपभरतवैताढ्यशिखरिण्यहम् । प्राग्भवे काञ्चनपुरे, विद्युदंष्ट्रो नृपोऽभवम् ॥४४३।। भवे तत्र च मेऽभूस्त्वं, रतिवल्लभनामकः । पुत्रोऽतिवल्लभो वत्स !, साम्प्रतं साध्वसीक्षितः ॥४४४।। तदेवं सम्प्रत्यपि मे, पुत्रोऽसि प्रमदप्रदः । यन्मदीयमनीकादि, त्वदीयं सर्वमेव तत् ॥४४५।। अन्यच्च राक्षसद्वीपो, विद्यते लवणाम्बुधौ । योजनानां सप्तशती, दिक्षु सर्वासु विस्तृतः ॥४४६।।