________________
३३२
श्रीअजितप्रभुचरितम् सर्गः-४ अन्येधुर्भावनः सद्मसर्वस्वं स्वाङ्गजन्मनः । समर्प्य प्रययौ देशान्तरं द्रव्यार्जनेच्छया ॥४२६।। वर्षंादशभिस्तत्र, समुपाW घनं धनम् । आगत्य स्वपुरे श्रेष्ठी, भावनस्तस्थिवान् बहिः ॥४२७॥ तत्र मुक्त्वा परीवारं, भृशोत्कलिकयाऽञ्चितः । [ए] काक्येव विभावाँ, सदनं स्वमुपाययौ ॥४२८।। विशन्तं हरिदासस्तं, चौरोऽसाविति शङ्कया । जघान निघृणस्वान्तः, शितेन तरवारिणा ॥४२९।। स्वस्य व्यापादकं सूनुं, तज्ज्ञात्वा भावनोऽप्यथ । सद्य उद्भूतविद्वेषपोषः पञ्चत्वमाप्तवान् ॥४३०॥ हरिदासोऽपि तं तातमवबुध्य स्वमानसे । दधानः परमं खेदं, प्रेतकार्याणि निर्ममे ॥४३१॥ कियत्यपि गते काले, सोऽप्यभून्मृत्युवत्क्रमः । भ्रेमतुर्दावपि ततो, दुःखदान् कतिचिद्भवान् ॥४३२॥ किञ्चिद्विधाय सुकृतं, भावनात्माऽथ जातवान् । पूर्णमेघो हरिदासजीवस्त्वासीत् सुलोचनः ॥४३३।। इति प्राग्जन्मसंसिद्धं, वैरं प्राणान्तिकं नृप ! । विबुध्यस्वैहिकं त्वेतदनयोरानुषङ्गिकम्' ॥४३४।। चयपृच्छत् पुनः 'स्वामिंस्तत्सून्वोरनयोमिथः । को वैरहेतुः ? प्रीतिश्च, सहस्राक्षे कुतो मम ?' ॥४३५॥ १. भृशोत्कण्ठया । २. मृत्युम् ।