________________
पूर्णमेघ-सुलोचनयोः पूर्वभवसम्बन्धः
___★ इति धर्मविषये धनमित्रकथा छ। ग्रं० १६६ ★ एवं श्रुतप्रभुगिरोऽनेके भव्यास्तदाऽभजन् । सम्यक्त्वं देशविरतिं, सर्वतो विरतिं तथा ॥४१७॥ तदा च वैताढ्यगिरौ, स्मरता स्वपितुर्वधम् । सहस्त्रनयनेनाशु, पूर्णमेघे निशुम्भिते ॥४१८॥ पलाय्य नन्दनस्तस्य, भीतिमान् घनवाहनः । तस्मिन् समवसरणे, शरणार्थी समाययौ ॥४१९।। युग्मम् ॥ स त्रिः प्रदक्षिणीकृत्य, वन्दित्वा च जगत्पतिम् । उपपादाम्बुजं पुष्पन्धयवद्धि निषेदिवान् ॥४२०॥ मत्तः स्रस्तः क्व यात्येष, तरणेरिव कौशिकः । शरणं वासवस्यापि, प्राप्तो घात्यो हठादपि ॥४२१॥ इति क्रोधोद्धरस्तस्याऽनुपदं समुपागतः । उदायुधः सहस्राक्षस्तमैक्षिष्ट तथास्थितम् ॥४२२।। प्रभावाच्च प्रभोः शान्तप्रकोपस्त्यैक्तहेतिकः । नत्वा प्रदक्षिणापूर्वं, यथास्थानमुपाविशत् ॥४२३।। चक्रिणा सगरेणाऽथ, पूर्णमेघ-सुनेत्रयोः । विरोधकारणं पृष्टः, समाचष्टाऽजितप्रभुः ॥४२४।। 'आदित्याभे पुरे द्रव्यकोटीनाथो वणिक् पुरा । भावनाख्योऽभवत्तस्य, हरिदासाह्वयः सुतः ॥४२५।।
१. भ्रमरवत् । २. त्यक्तास्त्रः ।