SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३३० श्री अजितप्रभुचरितम् सर्ग :-४ व्यधायि दुरितव्यूहापोहकृद्धर्म आर्हतः । तेनायं व्यन्तरोऽमुष्मिन् प्रभविष्णुरभून्न हि ||४०७॥ युग्मम् ॥ तस्माच्च व्यन्तराद्रत्नावलीं तामपि सत्वरम् । मोचयित्वोन्नतिं चक्रुः सुराः प्रवचनाश्रिताः ॥४०८|| " विस्मितोऽथ धराधीशो, नत्वा निर्ग्रन्थपुङ्गवम् । स्माह 'स व्यन्तरोऽद्यापीभ्यस्य किञ्चिद्विधास्यति ?' ||४०९ || मुनिरूचे' ऽनया रत्नावल्या सत्राऽखिलां श्रियम् । विस्तृतामप्यमुष्यैष, क्रमादपहरिष्यति ॥ ४१० ॥ अथेभ्यस्तीव्रदुःखार्त्तो, भ्रमिष्यति भवे बहु । व्यन्तरात्माऽपि बहुधा, विरोधं साधयिष्यति ॥ ४११ || आकण्यैवं प्रजानाथः, सुमित्राय समर्प्यताम् । रत्नावलीं स्वयं मन्त्रि-सामन्तादिभिरन्वितः ॥ ४१२ || सभार्यो जिनचैत्येषु, विधाय विविधान् महान् । संविग्नो विधिनाऽऽदत्त, दीक्षां सिद्ध्यध्वदीपिकाम् ||४१३|| युग्मम् ॥ धनमित्रोऽपि सूनुं स्वं ज्येष्ठं [कृ] त्वा गृहाधिपम् । सपत्नीकः परिव्रज्यां, प्रपेदे मुक्तिमातरम् ||४१४ ॥ चिरं तीव्रं तपस्तप्त्वा धृताशेषरजोमलौ । अव्याबाधं पदं प्राप्तौ, धनमित्र- नरेश्वरौ' ॥४१५॥ श्रुत्वेति धनमित्रस्य दृष्टान्तं स्पष्टचेतनाः । धर्मं शर्मप्रदं शश्वदाराधयत यत्नतः ॥ ४१६॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy