________________
धर्मविषये धनमित्रकथा
३२९
ततः सम्बोसिका शीर्णरत्नप्राप्तिमनोरथा । व्यतीयाय भृशं खेदविवशाऽहानि कत्यपि ॥३९७।। अथ खेदेन तेनैव, गृहीत्वा तापसव्रतम् । अज्ञानतपसा सम्बोसिका व्यन्तरतां गता ॥३९८॥ मगधाऽपि ततः किञ्चित्, कृत्वा सत्कर्म तादृशम् । जातः सुमित्रनामाऽयमिभ्यः सारश्रियां पदम् ॥३९९।। गङ्गदत्तो गृहपतिः, प्रपूर्याऽऽयुः क्रमादयम् । धनमित्रोऽभवच्छुद्धधर्मोल्लसितसन्मतिः ॥४००॥ स्मृत्वा तं रत्नवृत्तान्तं, व्यन्तरः सोऽपि कोपतः । इभ्यस्य [तान्] सुतानष्टौ, निनाय निधनं क्रमात्' ॥४०१॥ इभ्यो राज्ञाऽथ दृष्टास्योऽवदत् ‘सत्यमिदं प्रभो ! । किन्तु तेषां मृतेर्हेतुमद्यैवाऽज्ञासिषं स्फुटम्' ॥४०२॥ मुनिः पुनरभाषिष्ट, 'तेनैव क्रूरचेतसा । जहे रत्नावली सापि, व्यन्तरेणोल्लसत्क्रुधा ॥४०३।। कान्तां सम्बोसिकागेहमनुष्येषु वृथैव यत् । अभ्याख्यानपरां [मु]ग्धहृदयः सहसैव हि ॥४०४॥ धनमित्रोऽनुमेने तत्कर्मणा वचनीयताम् । इह लेभे कृतं कर्माऽननुभूय च्छुटेद्धि कः ? ॥४०५॥ युग्मम् ॥ अन्यदप्यशुभं भूरि, व्यन्तरेण दुरात्मना । चिन्तितं धनमित्रस्याऽप्यमुना त्वधुना परम् ॥४०६।।