________________
३२८
श्रीअजितप्रभुचरितम् सर्गः-४ ततः शमनिधिः स्माह, 'देहिनां संसृताविह । कर्मभिः परतन्त्राणामद्भुतं नैव किञ्चन ॥३८७।। शृणु राजन् ! गङ्गदत्ताभिधानः प्राच्यजन्मनि । आसीद् गृहपतिर्जीवो, धनमित्रस्य ऋद्धिमान् ॥३८८॥ असौ त्विभ्यस्तदा गङ्गदत्तस्य मगधाभिधा । गृहिणी स्पृहणीयश्रीरभूदायतलोचना ॥३८९॥ साऽन्यदेश्वरसञ्जस्य, वणिजो मन्दिरान्तरम् । कथञ्चन प्रविश्याऽऽशु, वञ्चनैकविचक्षणा ॥३९०॥ से बालकाभिधानायास्तत्पत्न्या रत्नमुत्तमम् । लक्षमूल्यं गृहीत्वाऽगात्, किमकृत्यं हि दुर्धियाम् ॥३९१॥ युग्मम् ॥ सम्बोसिकाऽपि तज्ज्ञात्वा, कथञ्चन शुचाकुला । गत्वा ययाचे मगधान्ते, तद्रत्नं विविधोक्तिभिः ॥३९२॥ न पुनर्मगधाऽमंस्त, केवलं क्रोधदुर्द्धरा । मुखरत्वेन यत् किञ्चिज्जजल्प प्रति तां मुहुः ॥३९३॥ उपालभ्यत सम्बोसिकयाऽथ मगधापतिः । सोऽपृच्छत्तां ततः सापि, जल्पाकी प्रत्यभाषत ॥३९४।। 'अस्या गृहमनुष्यैस्तद्रत्नं जहें खलु प्रिय ! । अभ्याख्यानं प्रदत्ते मे, [सा] मृषाऽनृतवादिनी' ॥३९५।। गङ्गदत्तोऽपि तच्छ्रुत्वा, प्रतीतः प्रेयसीगिरि । प्राह सम्बोसिकां गेहमनुष्यैस्तदहारि ते ॥३९६।। १. 'ईसरवणियस्स संतोसियाए भज्जाए वररयण' मिति पुष्पमालायां ४७८ श्लोकस्य वृत्तौ धनमित्रकथायां श्लो० ॥१३६॥