SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ धर्मविषये धनमित्रकथा धनमित्रोऽप्यगाद्वेश्म, वाद्यनादभृताम्बरः । ददद्दानं जनैः श्लाघ्यमानस्तीर्थं प्रभावयन् ॥३७७॥ द्वितीयेऽह्नि पुना राजा, सुमित्रं पुरसत्तमैः । अप्रच्छयत्तं वृत्तान्तं, सोऽप्याख्याद्विमना इति ॥ ३७८ ॥ 'महाराजो मुहुः किं मामनुयुङ्क्ते सुयुक्तिवित् । परमार्थं न जानेऽहं, स्वयं युक्तं करोतु तत्' ॥३७९॥ ततो भूमीश्वरः पौरा, निखिलाश्चातिविस्मिताः । परमार्थमजानाना, जोषमेवावतस्थिरे || ३८० ॥ एवं पुरेऽखिले बाढं, विस्मिते केवली मुनिः । स एव धनमित्रस्य, धर्मदाता समागमत् ॥ ३८१॥ अथ राजा समं पौरैः, प्रमोदोल्लसदाशयः । ऋद्ध्या महत्या नन्तुं तं जगामाऽऽगामिमङ्गलः || ३८२|| धनमित्रोऽपि सद्भक्तिबन्धुरः सकुटुम्बकः । सोत्कण्ठं समुपेयाय, वन्दितुं तं महामुनिम् ॥ ३८३॥ आनायिते सुमित्रेऽपि, नरेशेनाऽथ केवली । सद्धर्मदेशनां भव्यप्रबोधाय विनिर्ममे ॥ ३८४॥ समयेऽवददुर्वीशो, नत्वा विरचिताञ्जलिः । 'भगवन् ! संशयध्वान्तं, भिद्धि ज्ञानप्रभापते ! ||३८५ ॥ यदद्भुतं विवादेऽभूत्, सुमित्र- धनमित्रयोः । भवन्त एव जानन्ति, तत्र तत्त्वं सुदुर्गमम् ॥३८६|| ३२७
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy