________________
३२६
श्रीअजितप्रभुचरितम् सर्गः-४
प्रणिधायेति साश्चर्यैर्जनैः परिवृतोऽभितः । अनुद्विग्नमनाः प्राप, स भूपालङ्कृतां सभाम् ॥३६७।। सुमित्रोऽप्यागमत्तत्र, पौराश्च परितोऽमिलन् । धर्माध्यक्षैधृतौ देवस्थानस्याऽभिमुखौ च तौ ॥३६८॥ ध्मायमानं लोहगोलं, द्विपञ्चाशत्पलप्रमम् । समादातुमथो यावत्, कामानश्रावयद्धनः ॥३६९॥ तावद्रत्नावली सैव, द्युतिद्योतितदिङ्मुखा । सुमित्रस्योपसंव्यानग्रन्थेझटिति पेतुषी ॥३७०।। इभ्येदं किमिति क्षोणीनाथेऽथ परिपृच्छति । तेनाद्भुतेन सोऽत्यन्तं, क्षुभितो नोत्तरं ददौ ॥३७१॥ किमेतदिति भूभा, पृष्टोऽजल्पद्धनस्ततः । देवोऽवधारयत्येव, भूयोऽभाषत भूपतिः ॥३७२।। 'विवादो युवयोर्यस्या, रत्नावल्याः कृते कृतिन् ! । सेयं भवति नो वेति, ब्रूहि सम्यग् विनिर्णयम्' ॥३७३॥ धनोऽवादीन्महीनेतः !, सैवेयं लक्ष्यते खलु । कार्याणां परमार्थं तु, बुध्यन्ते सर्ववेदिनः ॥३७४।। जातक्षोभे सुमित्रे तु, तूष्णीमवाश्रिते नृपः । रत्नावली निजकोशाध्यक्षपाणौ समार्पय[त्] ॥३७५॥ धनमित्रं शुद्ध इति, विसृज्य प्रीतिपूर्वकम् । इभ्यं स्थानान्तरे स्वीये, स्थापयित्वा गृहं ययौ ॥३७६।।