________________
धर्मविषये धनमित्रकथा अब्रूत धनमित्रोऽथ, 'देव ! रत्नावलीमहम् । अगृहीतामपि ददे, कलङ्कः स्यात् पुनः स्थिरः ॥३५७।। मया च सकलङ्केन, जैनधर्मस्य लाघवम् । जायते तेन भूनाथ !, दिव्यात् प्रत्याययाम्यमुम् ॥३५८।। सुमित्रानुमतो भूपस्तेन कारयितुं ततः । तप्तायोगोलकादानदिव्यदिनमतिष्ठिपत् ॥३५९॥ ततश्चोत्थाय संस्त्यायं, स्वं स्वं द्वावपि भेजतुः । राजाऽपि विस्मितस्वान्तोऽलञ्चक्रे मन्दिरान्तरम् ॥३६०॥ धनमित्रो विशुद्धात्मा, भावयन् दारुणं भवम् । प्रावतिष्ट विशेषेण, विमले धर्मकर्मणि ॥३६१॥ प्राप्ते दिव्यदिने स्नानं, विधाय विमलांशुकः । अर्चा भगवदेर्चानां, विधिज्ञो व्यधिताऽष्टधा ॥३६२।। गभीराथैः स्तुति-स्तोत्रैस्ततोऽसौ चैत्यवन्दनाम् । निर्मायो निर्ममे प्रोद्यत्पुलकोच्छ्वसिताङ्गकः ॥३६३।। सुराणां सम्यग्दृष्टीनां, वैयावृत्त्यविधायिनाम् । कायोत्सर्गं विधायाऽथ, सोऽभ्यधादवधानवान् ॥३६४॥ इयं रत्नावली चित्तेनापि चेत् काङ्क्षिता मया । मा स्म भून्मम तद्दिव्ये, शुद्धिरार्हतनिर्जराः ! ॥३६५॥ अन्यथा तून्नतिं सार्वशासनस्य तथा द्रुतम् । प्रतनुध्वं यथा नान्योऽप्यस्य कुर्यात् प्रतीपताम् ॥३६६।।
१. गृहम् । २. प्रतिमानाम् ।