SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३२४ श्रीअजितप्रभुचरितम् सर्गः-४ मा खेदय सखे ! तन्मां, हास्यं जहिहि सत्वरम् । सारं गेहस्य तां रत्नावलीं मम समर्पय' ॥३४७॥ अध्यायद्धनमित्रोऽथ, कर्मणां जृम्भितान्यहो ! । चेतसाऽप्यकृते पापे, कौलीनं यदवाप्यते ॥३४८।। सुमित्रं प्रत्यवादीच्च, 'सत्यं वदसि सन्मते ! । यदन्यो नागतः कोऽपि, किन्तु चित्रं ममाप्यदः ॥३४९॥ अत्र रत्नावली साऽभूत्, पुरेदानी च नेक्ष्यते । यथा भवानदो वेद, तथाऽहमपि वेद वै' ॥३५०॥ सुमित्रः स्माह 'नेदृक्षैर्वचनैश्छुटसि ध्रुवम् । व्यवहारेण भूभर्तुः, पुरो गृह्णाम्यमूं जवात्' ॥३५१।। 'यद्युक्तं तद्विधेहीति,' धनमित्रस्य भारतीम् । श्रुत्वेभ्यो भूमिनाथाय, तस्करं तं न्यवेदयत् ॥३५२॥ भूमीशोऽचिन्तयन्नैतत्तत्र धर्मैकसद्मनि । सम्भवेदित्यहं जानाम्यपरेऽपि जनास्तथा ॥३५३।। निःसंशयमनाश्चायं, त्वेनं स्तेनं प्रलपत्यहो ! । पृच्छामि तत्तमेवेति, धनमित्रमजूहवत् ॥३५४|| [ध]नात् पृष्टाच्च तत् सर्वं, यथावृत्तं धराधवः । आकर्ण्य विस्मितोऽजल्पदिभ्य ! किं क्रियते ? वद ॥३५५॥ सोऽभाणीद्धरणीभतः !, किं प्रत्येति भवानपि । प्रत्यक्षतस्करस्याऽस्य, कुंहनासद्मनो गिरि ॥३५६।। १. दम्भगृहस्य ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy