________________
धर्मविषये धनमित्रकथा
अर्हत्पदाब्जभृङ्गस्य तस्य साधून्नमस्यतः । स्पर्द्धयेव हिरण्यस्य धर्मे भावोऽप्यवर्द्धत ॥ ३३७||
धर्माद्धनं समासाद्य, कृतज्ञानां शिरोमणिः । तमेव तेन सततं, स पुपोष विदोषधीः ||३३८|| अस्थात् प्रतिमया शून्यसदनादौ स पर्वसु । सुरासुरनरोद्भूतैरुपसर्गैश्च नाऽचलत् ॥३३९॥ एवं धर्मैकनिष्ठस्य, यशस्तस्य समुज्ज्वलम् । समन्ततो महीपीठे, प्रससार श्रिया समम् ॥३४०॥ इतश्चास्ति सुमित्राख्यस्तत्र श्रेष्ठी महाधनः । तस्यान्तिकं कुतोऽप्यर्थाद्धनमित्रः प्रयातवान् ॥ ३४१॥ कोटिमूल्यैस्तदा रत्नैः, स च रत्नावलीं पराम् । एकाकी रचयन्नस्ति, विविक्तस्थानमाश्रयन् ॥३४२॥ [ध]नमित्रोऽपि तत्रैवासीनस्तेन समं तदा । आलापानुचितांस्तन्वन्नस्थादस्थानमंहसः || ३४३ | श्रेष्ठी सुमित्रः केनापि, कार्येणोत्थाय सत्वरम् । सदनाभ्यन्तरं गत्वा, पुनर्यावदुपायौ ॥ ३४४॥ न तां रत्नावलीं तावदद्राक्षीदथ चाऽऽकुलः । धनमित्रं प्रति प्राह, 'क्व सा रत्नावली ननु ? ||३४५ ॥ अधुनैव मया मुक्ताऽधुनैव च न दृश्यते ।
त्वां मां विना च नान्योऽत्राजग्मिवान् कश्चन ध्रुवम् ॥३४६ ॥
३२३