SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३२२ श्रीअजितप्रभुचरितम् सर्गः-४ सोऽप्याहाऽऽकर्णय श्रेष्ठिन्नियच्चिरमिमे वयम् । वञ्चिता होटकमिदमिति तातगिरा वृथा ॥३२७॥ भारभूतांस्तदङ्गारानिदानीं त्याजयाम्यमून् । इति श्रुत्वा धनमित्रश्चिन्तयामास धीनिधिः ॥३२८।। पूर्ववस्थास्वहमिव, ध्रुवं भाग्यविपर्ययात् । स्वर्णमप्येतदङ्गारानेव पश्यत्ययं हहा ! ॥३२९।। ततो गोकुलनाथं तं, प्रोवाचाऽहो ! इमान् मम । गृहीत्वा मूल्यमुचितं, देहि मा स्म वृथा त्य[जः] ॥३३०।। किं विधास्यसि भोऽमीभिरिति तेन प्रजल्पितः । धनमित्रोऽवदत् किञ्चिद्विद्यते मे प्रयोजनम् ॥३३१।। पितृसत्का ममैते हि, तन्महार्घाद् ददामि ते । इत्युक्तवन्तं सन्तोष्य, तं गुडादिप्रदानतः ॥३३२॥ धनमित्रः स्वपृष्ठ्यानां, पृष्ठे निक्षिप्य तान् द्रुतम् । स्वमालयमुपेयाय, निरपायमुपायवित् ॥३३३॥ युग्मम् ।। ततः स्वर्णसहस्राणां, त्रिंशतं तां निभाल्य सः । हृष्टो धान्यांऽशुकादीनां, नानाहट्टान्यमण्डयत् ॥३३४॥ स्वयं स्वर्णापणासीनश्चार्जयद् द्रविणं बहु । धनाद्धनं हि सुप्रापं, जन्मी जन्मान्तरं यथा ॥३३५॥ धर्मप्रभावतोऽनेनाऽजितं धनमहो ! इदम् । सकलेऽपि पुरे तस्य, ख्यातिरीदृग् व्यजृम्भत ॥३३६॥ १. स्वर्णम् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy