________________
धर्मविषये धनमित्रकथा
३२१
तस्माल्लब्ध्वा च पुष्पाणि, सपर्यामेकतानहृत् । कृत्वाऽर्हत्प्रतिमानां स, भक्त्या व्यधित वन्दनम् ॥३१७।। ततश्च प्राप्य साधूनां, सन्निधिं विनयान्नतः । शुश्राव भावतो धर्म, धनमित्रः प्रमोदभाक् ॥३१८॥ द्वितीये प्रहरेऽथाऽह्नः, स तैल-लवणादिकम् । क्रीत्वा विक्रीय [च] न्यायात्, किञ्चिद् द्रविणमार्जयत् ॥३१९॥ यथा यथा मतिर्धर्मे, तस्य स्थेमानमानशे । तथा तथाऽभवद् द्रव्यार्जनं प्रतिदिनं बहु ॥३२०॥ ततो धर्मेऽधिकां श्रद्धां, दधद्बुद्धिमदग्रणीः । जिनपूजादिकार्येषु, व्ययति स्म घनं धनम् ॥३२१।। तद्गुणावर्जितमनाः, श्राद्धश्चैको महद्धिकः । तस्मै ददौ निजां पुत्री, सर्वं भाग्योदयेऽभवत् ॥३२२।। गृहमेकं धनेनाऽथ, गृहीत्वा तस्थिवान् सुखम् । धर्मैकप्रस्फुरद्बुद्धिर्वद्धिष्णुश्रीभरोऽन्वहम् ॥३२३॥ गतो गुडादि विक्रेतुं, सोऽन्यदा क्वापि गोकुले । तदैव प्रावृतत् त[त्तु], [ग]न्तुं स्थानान्तरं प्रति ॥३२४॥ नायको गोकुलस्याऽस्य, गोणीस्थान्निजकिङ्करैः । अङ्गारांस्त्याजयामास, भृत्वा भृत्वा पिटोच्चयम् ॥३२५॥ धनमित्रो वीक्षमाणः, केवलं स्वर्णमेव तान् । विस्मितो गोकुलाधीशं, त्यज्यतेऽदः किमित्यवक् ॥३२६।। १. स्थिरताम् ।