________________
३२०
श्री अजितप्रभुचरितम् सर्ग :-४
रागादिविजयी देवः, सर्वसङ्गोज्झितो गुरुः । जिनोक्तं तत्त्वमित्येतत्, सम्यक्त्वं श्रेयसां खनिः ॥३०७॥ स्थूलाङ्गिघात-मिथ्यावाक्-चौर्येभ्यः परदारतः । महापरिग्रहाच्चापि विदध्याद्विरतिं गृही ॥ ३०८ ॥ गमने दिक्षु सीमानं, मानं भोगोपभोगयोः । त्यागं चानर्थदण्डस्य, कुर्वीताऽवद्यभीरुकः ॥ ३०९ ॥ सामायिके धरेद्यत्नं, तथा देशावकाशिके । पौषधे संविभागे चातिथीनां सुकृतैकधीः ॥ ३१०||
एवं पञ्चाणुव्रतानि, त्रिसङ्ख्यांश्च गुणव्रतान् । शिक्षाव्रतानि चत्वारि, श्रयन् दुःखाद्यमं नयेत् ॥ ३११||
[ध]नमित्रो निशम्येति, सम्यक्त्वं व्रतसंयुतम् । स्वीचकाराऽनगाराणामीश्वरा [द्] द्रव्यवासनः ||३१२||
अभ्यग्रहीच्च नो धर्मादितरज्जीवितावधि | विधास्येऽह्नो निशश्चाद्ये यामे वाचंयमाग्रिम ! ||३१३||
"
अन्यच्चान्यत्रानाभोगात्, सहसाकारतस्तथा । आजीवितं परित्यक्तो, मत्सरोऽस्मिन् भवे मया ||३१४||
इत्याद्यभिग्रहानूरीकृत्य कृत्यविदां वरः । धन्यम्मन्यो मुनिं नत्वा, प्राविशद्धस्तिनापुरम् ॥३१५।। तत्र स्थितोऽन्वहं गत्वा, वाटिकामुदये रवेः । पुष्पावचयसाहाय्यात्, र्पुष्पाजीवमतोषयत् ॥३१६॥
१. मालाकृतम् ।