SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ धर्मविषये धनमित्रकथा ततः साधून् प्रणत्याऽऽत्मसद्म प्राप्तः प्रमद्वरः । अतिचारैव्रतान्येष, कानिचिन्मलिनान्यधात् ॥ २९७॥ मूलादेव भनक्ति स्म, कानिचित्तु विमूढधीः । सम्यग् ररक्ष तं चैत्यवन्दनाभिग्रहं पुनः ॥२९८॥ चिरमित्रमिव स्वान्तात्, प्रद्वेषमत्यजन्नयम् । [ला]भविघ्नकरोऽन्येषां निजायुः पर्यपूरयत् ॥२९९॥ जातोऽसि धनमित्राख्यः, स त्वं भद्र ! पुराकृतैः । व्रतभङ्गादिभिः पापैरुज्झितो धन - बन्धुभिः ॥ ३००॥ अपालयः पुनश्चैत्यवन्दनाभिग्रहं तदा । यत्नेन साम्प्रतं साधुसंसर्गं समवापिथ' ॥३०१॥ श्रुत्वेति दुष्कृताद्भीतो, धनमित्रोऽनुतापवान् । निन्दन्नात्मानमित्याख्यन्मुनिं प्रति कृताञ्जलिः ||३०२|| 'स्वामिन् ! दुरात्मना पूर्वभवे हन्त हतात्मना । मया नात्महितं चक्रे तदत्राऽभूवमीदृशः ॥ ३०३|| , प्रसीद वद तं कञ्चिदुपायं पापजित्वरम् । दुःखानामीदृशां येनास्पदं स्यां न कदाचन ॥ ३०४|| हितैकनिरतः सूरिर्दीनं तमव[द]त्ततः । 'भद्र ! धर्मं विना कश्चिन्नोपायो दुःखभेदकः ॥३०५॥ दुःखभेदाय कल्याणोद्भेदाय च महामते ! । द्रुतं श्रयस्व सम्यक्त्वं, व्रतानि द्वादशाऽपि च ॥३०६॥ ३१९
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy