SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३१८ श्रीअजितप्रभुचरितम् सर्गः-४ ततः सूरिवरः स्पष्टमाचष्ट शृणु सन्मते ! । निवेदयामि ते पूर्वदुष्कृतं दुःखदायकम् ॥२८७।। 'भरतेऽत्रैव विजयपुरनाम्नि पुरेऽभवत् । गङ्गदत्तो गृहपतिर्मगधाप्राणवल्लभः ॥२८८।। स स्वयं धर्मनामाऽपि, नाऽबुध्यत कदाचन । अन्येषामप्यकार्षी[च्च], विघ्नं धर्मविधायिनाम् ॥२८९।। प्रकृत्या मत्सरापूर्णहृदयश्चाशकन्न हि । द्रष्टुं वराटिकामात्रमपि लाभं परस्य सः ॥२९०॥ व्यवहारेण सम्प्राप्तबहुलाभं परं पुनः । पश्यन् दाहज्वरं घोरमसौ सततमासदत् ।।२९१।। चकार च प्रभूतानां, जनानां बहुधा कुधीः । लाभविघ्नं निर्निमित्तं, व्यथितोऽयमसूयया ॥२९२।। चित्तस्फुरदुर्विकल्पकोटीभिः प्रविडम्बितः । सोऽभवत् सद्मनः स्वामी, येशःशेषेऽथ वप्तरि ॥२९३।। अन्येद्युः करुणासान्द्रः, श्रावकः सुन्दराभिधः । साधूनामन्तिकेऽनैषीत्तं गाढादुपरोधतः ॥२९४।। धर्मश्रवणतः सद्यः, सम्भूताच्छुभभावतः । सुन्दरस्योपरोधाच्च, गङ्गदत्तोऽथ कान्यपि ॥२९५॥ व्रतानि प्राणातिपातविरत्यादीनि भेजिवान् । ऊरीचक्रेऽभिग्रहं च, नित्यचैत्यनमस्कृतौ ॥२९६॥ युग्मम् ॥ १. मृते ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy