SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ धर्मविषये धनमित्रकथा ततो वाणिज्यमुज्झित्वा, बाढं निर्विण्णमानसः । प्रारब्ध भूमिपादानां, सेवां स्फुरदुपक्रमः ॥२७७॥৷ तेषां चित्तानुवृत्त्या स चेष्टते स्म तथापि ते । तत्कृतं मेनिरे सर्वं, विपरीतं स्वचेतसि ॥२७८॥ ततो लेभे धनं किञ्चिन्नाऽयं भाग्यविवर्जितः । लेभे वा तुच्छं [यत्] केनाप्यसद्वारेण तद्ययौ ॥२७९॥ एवं स विविधैः क्लेशैः खिन्नो धनलवोज्झितः । आत्मानं जीव[य]न् भिक्षावृत्त्या बभ्राम भूतले ॥२८०॥ , हस्तिनापुरमन्येद्युर्गतो भाविशुभोदयः । सहस्त्राम्रवणोद्याने, स्थितं केवलिनं मुनिम् ॥२८१॥ गुणसागरनामानं, साधुवृन्दसमन्वितम् । नृपादीनां पुरो धर्मं, कथयन्तमलोकत ॥ २८२॥ युग्मम् ॥ अथ नत्वा निषण्णोऽसौ श्रुत्वा तस्य मुनेर्वचः । भावि[ता]त्मा गलद्वाष्पोऽवसरं प्राप्य पृष्टवान् ॥२८३॥ 'आरभ्य शैशवात् स्वामिन् !, पतितो दुःखवारिधौ । सुखलेशमपि प्रापं न कदाप्यत्र जन्मनि ॥ २८४ ॥ , अभूद्वियोगो बन्धूनां, धनस्य च परिक्षयः । वन्ध्यता च समग्राणामुपायानां प्रभो ! मम ॥ २८५॥ कृपालो ! वेत्सि तत्सर्वं, केवलज्ञानचक्षुषा । भणामि पुनरुक्तं किं, तत्र हेतुं तु बोधय' ॥ २८६॥ ३१७
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy