________________
३१६
श्रीअजितप्रभुचरितम् सर्गः-४ ध्यात्वेति सम्यगालोक्य, स्वर्णसत्तां विबुध्य च । 'ॐ नमो धरणेन्द्रायेत्यादि' मन्त्रं जपन्नसौ ॥२६७।। तं प्रदेशं खनन् क्षिप्रं, दुष्कर्मोदययोगतः । अपश्यत् केवलाङ्गारपूर्ण ताम्रघटद्वयम् ॥२६८।। युग्मम् ॥ खिन्नस्ततोऽसकौ दध्यावहो ! मे दुष्कृतोदयः । स्वर्णे पीतरसाज्ज्ञातेऽप्यङ्गारान् यन्निभालये ॥२६९।। तथाप्युद्यममुज्झिष्याम्यहं नैव कदाचन । अनिविण्णः श्रियो मूलमित्याहुर्यन्महाधियः ॥२७०।। ध्यात्वेति खन्यवादस्य, वचांसि हृदये स्मरन् । लुब्धश्चखान बहुधा, भूमिभागान् पुरः पुरः ॥२७१॥ वराटिकामपि पुनरलब्ध्वा क्वापि निर्भरम् । खिन्नः सङ्गतिमातेने, सादरं धातुवादिभिः ॥२७२॥ तत्राप्यभाग्ययोगेनाऽनुभूतक्लेशसंहतिः । अकृतार्थोऽम्बुधि तीर्वाऽविशद् द्वीपान्तराणि सः ॥२७३॥ तत्राऽऽर्जयदयं किञ्चिद्, द्रविणं कृच्छ्रकोटिभिः । ममज्ज तु तदम्भोधौ, चौरैर्वाऽह्रियत क्वचित् ॥२७४।। ततः स्थलाध्ववाणिज्ये, धृतबुद्धिर्महोद्यमः । सरित्कान्तार-शैलादिविषमे [सो]ऽचलत् पथि ॥२७५।। दुःखलक्षार्जितं तत्राऽप्यनशत्तस्य तद्धनम् । छलान्वेषिनरेन्द्रेभ्यः, स्तेनेभ्यः पावकादपि ॥२७६।।