SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ धर्मविषये धनमित्रकथा ३१५ अर्थाभावात् पुनः कन्यां, न ददौ तस्य कश्चन । दिशैकया ततो दुःखी, लज्जया निर्ययौ पुरात् ॥२५७॥ अध्वानं लङ्घमानोऽथ, प्राप्त एकां महाटवीम् । परिश्रान्तो विशश्राम, च्छायायां क्वापि शाखिनः ॥२५८॥ द्रव्यार्जनाय विविधानुपायान् परिचिन्तयन् । पलाशद्रुमशाखायां, प्ररोहं [स] समैक्षत ॥२५९॥ ततः प्रमुदितस्वान्तः, प्रणुन्नोऽसौ धनार्यया । सस्मार खन्यवादस्य, श्रुतपूर्वस्य तद्यथा ॥२६०॥ 'अक्षीरद्रौ प्ररोहश्चेद्, दृश्यते तदधस्तदा । निधानं निगदेत् किञ्चिद्, ध्रुवं बिल्व-पलाशयोः ।।२६१॥ प्ररोहस्तु यदि स्थूलो, निधाने भूरि तद्धनम् । तनुको यदि तत् स्तोकमिति' प्राहुर्मनीषिणः ॥२६२।। 'रजनौ स प्ररोहश्चेज्ज्वलेत्तद् द्रविणं बहु । ऊष्ममात्रान्वितश्चेत्तु, तदा विद्याद् धनं तनु ॥२६३।। प्ररोहवेधतो रक्ते, निर्गते रत्नसञ्चयः । क्षीरे रूप्यं रसे पीते, पुनः स्वर्णं भवेन्निधौ ॥२६४।। उच्चो यावति देशे स्यात्, प्ररोह उपरि ध्रुवम् । अधस्तावति देशे तन्निधानं गदितं बुधैः ॥२६५।। ऊर्ध्वं यदि प्ररोहोऽसौ, तनुकोऽधः पृथु वे[त्] । तदा निधानसम्प्राप्तिर्व्यत्ययो व्यत्यये पुनः' ॥२६६।। १. धनेच्छया ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy