________________
३१४
श्रीअजितप्रभुचरितम् सर्गः-४ जीवाः प्रमादमैरेयासक्त्या गलितचेतनाः । निर्गम्य नृजनूरत्नं, शोचन्त्यन्तक्षणे भृशम् ॥२४७।। यथा वारीगतो हस्ती, वागुरापतितो मृगः । बडिशस्थोऽथवा मत्स्यः, शोचेद्धर्मोज्झितस्तथा ॥२४८॥ प्रेमश्रीजीवितव्यानां, गन्धर्वनगरोपमाम् । विदन् कः कोविदो धर्मे, प्रमादं कुरुते किल ॥२४९।। रूपमारोग्यमैश्वर्यं, विभवं चाप्यनुत्तरम् । यदि काश्त तद्धर्मं, विधत्त धनमित्रवत् ॥२५०॥ तथाहिअत्रैव भरतक्षेत्रे, मन्दिरं प्रवरश्रियः । विनीतपौरं विनयपुराख्यं विद्यते पुरम् ॥२५१॥ तत्राऽभवद्वसुः श्रेष्ठी, वसुनिर्जितरोहणः । दृढैर्गुणैश्चलां लक्ष्मी, यो बद्ध्वा व्यधित स्थिराम् ॥२५२॥ तस्य भद्राभिधानायां, जायायामजनि क्रमात् । मनोरथशतैः पुत्रो, धनमित्रोऽभिधानतः ॥२५३।। प्राच्यपापोदयात्तस्य, [शि]शोरपि परासुताम् । पितरौ प्रापतुर्लक्ष्मीरपि क्षीणा समन्ततः ॥२५४॥ मुक्तोऽसौ परिवारेण, बन्धुभि_लितोऽखिलैः । दुःखेन वर्द्धमानोऽभूदास्पदं यौवनश्रियः ॥२५५।। विनयात् प्रज्ञया चापि, कलाचार्यः प्रसन्नहृत् । विविधासु कलासूच्चैः, कौशलं तमलम्भयत् ॥२५६।।