________________
सगरचक्रिणः षट्खण्डसाधनम्
३१३
पत्तनानां सहस्राष्टाचत्वारिंशतमैष्ट सः । आकराणां च सहस्रं, विंशतेरद्भुतश्रियाम् ॥२३७॥ कर्बटानां मडम्बानां, सहस्राणि तु चक्रभृत् । चतुर्विंशतिसङ्ख्यानि, प्रत्येकं शश्वदन्वशात् ॥२३८॥ सम्बाधानां खेटानां च, सहस्राणि यथाक्रमम् । चतुर्दश षोडश चाऽपालयद्बलभित्तुलः ॥२३९।। कुराज्यानां तथैकोनां, पञ्चाशतमपादसौ । अन्तरोदकषट्पञ्चाशतं चा[ऽमेय]पौरुषः ॥२४०॥ चक्रिणः सूपकाराणां, सत्रिषष्टिः शतत्रयी । आसन्नष्टादशमिताः, श्रेणि-प्रश्रेणयः पुनः ॥२४१॥ षोडशसहस्रसङ्ख्यान्, द्वीपानम्भोधिमध्यगान् । अपाच्चक्रीतरदपि, भरतक्षेत्रमध्यगम् ॥२४२॥ षट्खण्डां भरतक्षोणी, रक्षन्नक्षतभोगभाक् । अलक्ष्यचरणोऽविक्षत्, केषां हृन्मन्दिरं न सः ? ॥२४३॥ अजितप्रभुमन्येधुर्विनीतोपान्तमागतम् । वन्दितुं सगरोऽयासीद्दासीभूतैर्नृपैर्वृतः ॥२४४।। कृपावान् भगवान् शक्र-चक्र्यादिषु यथोचितम् । निषण्णेषु समादिक्षद्धर्मं दुष्कर्मनाशनम् ॥२४५।। दृष्टान्तैर्दशभिर्मर्त्यजन्म दुर्लभमाप्य भोः ! । यतध्वमर्जने पुण्यसम्पदो दलितापदः ॥२४६॥