________________
३१२
श्रीअजितप्रभुचरितम् सर्गः-४
अथ चक्रिनिदेशेन, शुल्क दण्ड-करोज्झिता । भटप्रवेशरहिता, नानानाटकसङ्कला ॥२२७।। स्फुरदातोद्यनिर्घोषा, गुरुगन्धर्वगीतिभृत् । अभवद् द्वा[द]शाब्दानि, महोत्सवमयी पुरी ॥२२८|| युग्मम् ॥ पुरोहितो गृहपतिर्वर्द्धकिः पृतनापतिः । स्त्री गजस्तुरगश्चेति, पञ्चाक्षं रत्नसप्तकम् ॥२२९॥ चक्रं छत्रं तथा चर्म, कृपाणः काकिणी मणिः । दण्डश्चैतानि सप्तैव, रत्नान्येकेन्द्रियाणि तु ॥२३०॥ एतैर्यक्षसहस्रेण, प्रत्येकं समधिष्ठितैः । चतुर्दशभिरुर्वीशो, रत्नैः शोभा परां दधौ ॥२३१।। तस्याङ्गरक्षां यक्षाणां, सहस्रद्वयमातनोत् । कासितार्थान् प्रददिरे, निधयश्च नवाऽक्षयाः ॥२३२॥ देशानां मेदिनीशानां, नाटकानां च चक्रभृत् । दधौ द्वात्रिंशत्सहस्रसङ्ख्यानां प्रभुतां पृथक् ॥२३३।। तस्याऽभूवन् राजपुत्र्यो, जानपद्यश्च वल्लभाः । पृथग् द्वात्रिंशत्सहस्रप्रमाणाः प्रवरश्रियः ॥२३४।। प्रत्येकं चतुरशीति, लक्षा दन्ति-रथा-ऽर्वताम् । चक्रयपाद् ग्राम-पत्तीनां, कोटीः षण्णवतिं पुनः ॥२३५।। द्वासप्ततेः पुरवरसहस्राणामधीशताम् । सहस्रोनद्रोणमुखलक्षाया अपि चातनोत् ॥२३६॥