SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३१० श्री अजितप्रभुचरितम् सर्गः -४ नदन्नानाविधातोद्यनादपूरितदिङ्मुखः । पदे पदे कुलस्त्रीभिः, प्रकृताने[क]मङ्गलः ॥२०७॥ उच्चैर्बन्दिजनैः पठ्यमानासमगुणोच्चयः । मुदितैर्विस्मितैः पौरैर्वीक्ष्यमाणो मुहुर्मुहुः ॥२०८॥ घुसृणाम्बुच्छटापुष्पप्रकरस्वस्तिकादिभिः । प्रत्युग्रप्रसरच्छोभामविक्षन्नगरीं नृपः ॥ २०९ ॥ कलापकम् ।। क्लृप्तमङ्गलसन्दोहं, प्राप्तः स्वभवनाजिरम् । द्विपादुत्तीर्य भूपाल-सेनान्यादीन् विसृज्य च || २१०॥ सान्तःपुरपरीवारः, स्त्रीरत्नेन समन्वितः । प्रविवेश स्वधाम स्वःप्रतिधाम धराधिपः ॥ २११ ॥ युग्मम् ॥ अथ स्नात्वा देवपूजां, कृत्वा भुक्त्वा नवैर्नवैः । गीत-नृत्तादिभि [श्चक्री], चिक्रीडाऽमेयभाग्यभूः ॥ २१२ ॥ अनुज्ञाप्याऽन्यदा देवाः, षट्खण्डभरतेश्वरम् । मुदिताश्चक्रवर्त्तित्वाभिषेकार्थं महोद्यमाः ॥२१३॥ पुर्या उत्तरपूर्वस्यां, रत्नपीठविराजितम् । विचक्रुर्मण्डपं रत्नमयं निर्मायमानसाः || २१४ ॥ युग्मम् ॥ नदी-नद-नदीनाथ तीर्थेभ्यो निर्जरा जलम् । आनिन्यिरे भूधरेभ्यो, विविधा औषधीस्तथा ॥ २१५ ॥ अथ सान्तःपुरः सस्त्रीरत्नस्तं रत्नमण्डपम् । प्रविश्य चक्रभृत् स्नानपीठं सिंहासनान्वितम् ॥ २१६ ॥ १. स्वर्गसमानम् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy