________________
३१०
श्री अजितप्रभुचरितम् सर्गः -४
नदन्नानाविधातोद्यनादपूरितदिङ्मुखः । पदे पदे कुलस्त्रीभिः, प्रकृताने[क]मङ्गलः ॥२०७॥ उच्चैर्बन्दिजनैः पठ्यमानासमगुणोच्चयः । मुदितैर्विस्मितैः पौरैर्वीक्ष्यमाणो मुहुर्मुहुः ॥२०८॥
घुसृणाम्बुच्छटापुष्पप्रकरस्वस्तिकादिभिः । प्रत्युग्रप्रसरच्छोभामविक्षन्नगरीं नृपः ॥ २०९ ॥ कलापकम् ।।
क्लृप्तमङ्गलसन्दोहं, प्राप्तः स्वभवनाजिरम् । द्विपादुत्तीर्य भूपाल-सेनान्यादीन् विसृज्य च || २१०॥
सान्तःपुरपरीवारः, स्त्रीरत्नेन समन्वितः ।
प्रविवेश स्वधाम स्वःप्रतिधाम धराधिपः ॥ २११ ॥ युग्मम् ॥ अथ स्नात्वा देवपूजां, कृत्वा भुक्त्वा नवैर्नवैः । गीत-नृत्तादिभि [श्चक्री], चिक्रीडाऽमेयभाग्यभूः ॥ २१२ ॥
अनुज्ञाप्याऽन्यदा देवाः, षट्खण्डभरतेश्वरम् । मुदिताश्चक्रवर्त्तित्वाभिषेकार्थं महोद्यमाः ॥२१३॥
पुर्या उत्तरपूर्वस्यां, रत्नपीठविराजितम् । विचक्रुर्मण्डपं रत्नमयं निर्मायमानसाः || २१४ ॥ युग्मम् ॥
नदी-नद-नदीनाथ तीर्थेभ्यो निर्जरा जलम् । आनिन्यिरे भूधरेभ्यो, विविधा औषधीस्तथा ॥ २१५ ॥
अथ सान्तःपुरः सस्त्रीरत्नस्तं रत्नमण्डपम् । प्रविश्य चक्रभृत् स्नानपीठं सिंहासनान्वितम् ॥ २१६ ॥ १. स्वर्गसमानम् ।