________________
सगरचक्रिणः षट्खण्डसाधनम्
तस्मिन्नददतीमां च, पूर्णमेघो हठादपि । जिघृक्षुर्मानिनां सीमा, समरार्थमुपाययैौ ॥१९६॥ प्रवृत्ते समरे घोरे, पूर्णमेघो महाबलः । सुलोचनं संयमनीपुरीपथिकमातनोत् ॥१९७॥ सहस्रनयनो भीतस्ततः स्वभगिनीमिमाम् । उपादाय वनेऽत्राऽऽगाद्रयेण सपरिच्छदः ॥ १९८॥ सरसीह स्मराकारं, भवन्तं वीक्ष्य सा विभो ! | दशां स्मरमयीं कां कां, न लेभे गतनिर्वृतिः ? ॥१९९॥
तदद्य मा विपाद्येषा, सद्यस्त्वद्विरहातुरा । त्रायतां त्रायतां नाथ ! त्वया स्वीकारभेषजात् ॥ २००॥ ब्रुवाणे कञ्चुकिन्येवं, सहस्त्रनयनोऽपि सः । आगत्य चक्रिणं नत्वा, स्वावासेऽन[य] दादरात् ॥२०१॥ स्त्रीरत्नस्य सुकेशाया, दानाच्च परितोषितम् । तमनैषीद्विमानेन, वैताढ्याद्रौ निजं पुरम् ॥ २०२॥ चक्रभृत् पैतृके राज्ये, सहस्त्रनयनं ततः । निवेश्याऽखिलविद्याभृदीशितारं विनिर्ममे ॥ २०३ ॥ अथ स्त्रीरत्नयुक् चक्री, शिबिरं स्वमुपाययौ । विनीतां प्रति चक्रे च, पौषधेनाऽष्टमं तपः ॥२०४॥
पूरयित्वाऽष्टमं दुष्टारिष्टप्रकरपिष्टिकृत् । निर्ममे वसुधाधीशः, पारणं सपरिच्छदः || २०५ ।। अथ भूषणसम्भारभूषितो वरवस्त्रभृत् । गजेन्द्रस्कन्धमारूढः, परितोऽपि वृतो नृपैः ॥ २०६॥
३०९