________________
३०८
श्रीअजितप्रभुचरितम् सर्गः-४ तत् किं भूचरकन्येयं ?, यद्वा खेचरकन्यका ? । सुरी किमसुरी किं वा ?, किं वा कासारदेवता ? ॥१८६।। इत्यनल्पविकल्पौघं, कल्पयन्नमुयाऽप्यसौ । ददृशे स्मरसम्भूतविभ्रमस्फारनेत्रया ॥१८७॥ मिथो निर्वर्णनाद्रागस्तयोर्मनसि तत्क्षणात् । प्रादुर्बभूव वा:सेकादिवाऽङ्कुरो महीतले ॥१८८॥ सा कामज्वरतः सीदत्सर्वाङ्गी शून्यचेष्टिता । संस्थाप्याऽऽनीयताऽऽवासे, सध्रीचीभिः कथञ्चन ॥१८९॥ सगरोऽपि च कामार्त्तः, सरस्तीरे शनैश्चरन् । सौविदेन समभ्येत्य, प्रणत्यैवं न्यगद्यत ॥१९०॥ 'शृणु प्रभोऽत्र भरते, वैताढ्यो नाम पर्वतः । नगरं तत्र गगनवल्लभं प्रस्फुरच्छुभम् ॥१९१।। सुलोचनाभिधस्तत्राऽभवद्विद्याधरेश्वरः । गुणारामवसन्तर्तुः, संस्त्यायः पौरुषश्रियः ॥१९२॥ तस्यात्मजन्मा सहस्रनयनो नाम विद्यते । सुता चेयं सुकेशाख्या, प्रमदाजातिमण्डनम् ॥१९३॥ एको निमित्तविज्जन्मक्षण एव महामतिः । स्त्रीरत्नं चक्रिणो जायां, भवित्रीमभ्यधादिमाम् ॥१९४।। इतश्च पूर्णमेघाख्यो, रथनूपुरपार्थिवः । भूयो भूयः स्फुरद्रागोऽयाचिष्टेमां सुलोचनम् ॥१९५॥