________________
सगरचक्रिणः षट्खण्डसाधनम्
३०७
वल्गां सामर्षमाकृष्योरुभ्यां चाऽऽक्रम्य पार्श्वतः । चक्री दधे हयं झम्पां, दत्त्वोदतरदाशु च ॥१७६।। वाहोऽपि प्राप्तवैधुर्यो, धरापीठे पपात सः । चरणाभ्यां चरंश्चक्री, पुरस्तात् प्रययावथ ॥१७७॥ प्राप्यैकं च सरः स्नात्वा, पयः पीत्वा नरेश्वरः । तस्य तीरे स्थितोऽद्राक्षीदेकां युवतिमुत्तमाम् ॥१७८॥ यद्वास्यदास्यमाधातुं, कुण्डलद्वितयच्छलात् । शशी द्वैरूप्यमाश्रित्य, मन्ये सन्निधिमाश्रयत् ॥१७९॥ दिनान्ते प्रस्फुरदैन्यं, निजसद्म महोत्पलम् । विहाय पद्मा यन्नेत्रपद्मे भेजे सदास्मिते ॥१८०॥ यस्या दन्तच्छदद्युत्या, विद्रुमो विद्रुतः किल । जलराशेर्जलेऽस्ताघे, पपात मरणेच्छया ॥१८१॥ लावण्यामृतवापी यां, लसत्क्रमकराम्बुजाम् । पीनोन्नतकुचव्याजानेजाते चक्रदम्पती ॥१८२॥ सिंहं जयन्त्या उदरश्रिया यस्या ध्रुवं गजः । प्रीतः स्वारिजयात् स्वीयां, प्राभृतीचकृवान् गतिम् ॥१८३॥ तां पश्यन्नुपमातीतरूपसम्पदमादरात् । सगरश्चक्रभृच्चित्ते, दध्यिवान् धीमतां वरः ॥१८४॥ सुरासुराङ्गनावृन्दविधानाभ्यासतो विधिः । इमामद्भुतलावण्यपुण्यां व्यधित निश्चितम् ॥१८५।। १. यस्या मुखस्य दासत्वम् ।