________________
३०६
श्रीअजितप्रभुचरितम् सर्ग :-४
उपभुङ्क्ष्व यथाकाङ्क्ष, प्रयच्छ च यदृच्छया । वयं पाथोधिपाथोवदक्षयाः क्षितिनायक ! || १६६ ॥ तद्वाचमनुमन्याऽष्टाह्निकां तेषां व्यधान्नृपः । असाधयच्च सेनान्या, प्राचीनं गाङ्गनिष्कुटम् ॥१६७॥ चत्वारि निष्कुटान्यन्त: खण्डे द्वे चेति भारतम् । षट्खण्डं द्वात्रिंशताऽब्दसहस्त्रैः सगरोऽजयत् ॥ १६८ ॥ योजनप्रमितं तन्वन् प्रयाणं प्रतिवासरम् । प्रष्ठचक्रोऽथ ववले, चक्रभृत् स्वपुरीं प्रति ॥ १६९॥ द्विपपङ्क्तिमयीं क्वापि, हयोच्चयमयीं क्वचित् । रथवीथीमयीं क्वापि, पत्तिस्तोममयीं क्वचित् ॥१७०॥
भुवं कुर्वन्नभः सैन्यपांसुभिः परिपूरयन् । विनीतोपान्तमाप्तोऽसौ, शिबिरं न्यस्य तस्थिवान् ॥१७१॥ युग्मम् ॥
तत्र चक्रधरोऽन्येद्युर्वाह्यली भुवमाश्रितः । अवाहयन्महीयांसमेकं शूंकलवाजिनम् ॥१७२॥ उत्तरोत्तरधारासु, क्रमादेष तुरङ्गमः । आरोप्यताऽखिलकलाशालिना चक्रवर्त्तिना ॥१७३॥
धारां पञ्चमिकामारोपितः प्रोद्भूतपक्षवत् । खेनोत्पपात वल्गादिसञ्ज्ञाज्ञानजडो हयः || १७४ ॥
तेनापहृत्य सगरो, गरुत्मद्गुरुरंहसा । क्षिप्तः क्षणा[द]रण्यान्यामगण्यसुकृतैकभूः ॥१७५॥
१. अश्वक्रीडाभूमिम् । २. उद्धताश्वम् ।