________________
३०५
सगरचक्रिणः षट्खण्डसाधनम् ततो जिगाय वैताढ्यश्रेणिद्वितयवर्तिनः । विद्याधरान् महाविद्यादुर्द्धरान् सगरो नृपः ॥१५५॥ विभाऽलङ्कारहस्त्यश्वाधुच्चैः प्राभृतदायिनः । सत्कृत्य ते नरेन्द्रेण, विसृष्टाः स्वपदं प्रति ॥१५६॥ ततश्चमूपतिश्चक्रिनिदेशाद् द्वारमुत्तरम् । प्राग्वत् खण्डप्रपाताख्यगुहाया उदघाटयत् ॥१५७|| प्राग्युक्त्या लङ्घमानस्तां, मण्डलान्यालिखन्नृपः । प्रत्यग्भित्त्युद्भवे गङ्गाप्राप्ते प्राग्भित्तिवर्मना ॥१५८॥ उत्तीर्य पद्ययोन्मग्ना-निमग्नाख्ये सरिद्वरे । स्वयमुद्धटिताऽपाच्यद्वारेण निरगाद्वहिः ॥१५९।। युग्मम् ॥ स्कन्धावारं निवेश्याऽथ, गाङ्गे रोधसि पश्चिमे । निधीनुद्दिश्य विदधे, नरनाथोऽष्टमं तपः ॥१६०॥ अथैयु:सर्प-पाण्डू, पिङ्गलः सर्वरलकः । महापद्मः को महाकालौ माणं -शङ्खकौ ॥१६१॥ इत्येते नव निधयः, प्रत्येकं दशभिः शतैः । सुरैरधिष्ठिता हैमाः, सद्वैडूर्यकपाटकाः ॥१६२॥ चक्राष्टकस्थिता अष्ट, नव द्वादश योजनाः । उत्सेध-पृथुता-दैय॑श्चक्रचन्द्रार्कचिह्निताः ॥१६३॥ त्रिभिविशेषकम् ॥ तदधिष्ठायका देवास्तन्नामानस्तदालयाः । पल्योपमायुषो नागकुमारा नृपमभ्यधुः ॥१६४॥ वयं गङ्गामुखस्थानाः, साम्प्रतं तव सन्निधौ । भूमिमध्ये चरिष्यामस्त्वद्भाग्येन वशीकृताः ॥१६५॥