________________
३०४
श्रीअजितप्रभुचरितम् सर्गः-४ पूर्वभागे च तस्याद्रेः, काकिण्याऽक्षरमालिकाम् । अलिखत् सगरश्चक्री, द्वितीय इति सुस्फुटम् ॥१४४॥ ततः शिबिरमागत्य, विहिताष्टमपारणः । हिमाचलकुमारस्याऽष्टाह्निकामहमातनोत् ॥१४५॥ मार्गेणोत्तरपूर्वेणाऽनुचक्रमथ चक्रभृत् । गत्वा गङ्गासुरीसद्मसविधे शिबिरं व्यधात् ॥१४६।। कम्प्रपीठाऽष्टमाद् गङ्गाऽवधिज्ञानेन चक्रिणम् । प्राप्तं विज्ञाय नभसोपतस्थे धृतसम्भ्रमा ॥१४७।। सहस्रं रत्नकुम्भानामष्टोत्तरमनुत्तरम् । स्वर्णमाणिक्यचित्रं च, रत्नसिंहासनद्वयम् ॥१४८।। चक्री तद्दत्तमादाय, ससम्मानं विसृज्य ताम् । पारयित्वाऽष्टमं तस्या, विदधेऽष्टाह्निकामहम् ॥१४९॥ [युग्मम्] अनुगच्छन्नथो चक्रं, दिशा दक्षिणया नृपः । प्राप खण्डप्रपाताख्यां, गुहामहतपौरुषः ॥१५०।। तस्याश्च सविधे स्कन्धावारं न्यस्याऽष्टमं तपः । नाट्यमालसुरं स्मृत्वा, चकार स्फारवैभवः ॥१५१॥ पीठकम्पेन सोऽभ्येतो, विविधालङ्कृतीः कृती । प्राभृतीकृत्य भृत्यत्वमभजच्चक्रवत्तिनः ॥१५२।। विसृज्य तं महीयांसं, कृत्वाऽस्याऽष्टाह्निकामहम् । गङ्गाप्राग्निष्कुटं जेतुं, सेनान्यं चत्र्यथाऽऽदिशत् ॥१५३।। सोऽप्यर्द्धसैन्यप्राग्भारभारेणोर्वी प्रकम्पयन् । सिन्धुनिष्कुटवद् गाङ्गं, जित्वा निष्कुटमेतवान् ॥१५४।।