________________
सगरचक्रिणः षट्खण्डसाधनम्
रचिताञ्जलयो व्यज्ञपयंश्च नरनाथ ! ते । किङ्कराः स्मस्तदागो नः, क्षमस्वाऽज्ञानतः कृतम् ॥१३३॥ चक्र्यप्युचितमाभाष्य, सत्कृत्य विससर्ज तान् । सेनान्यं चाऽऽदिशज्जेतुं, सिन्धोः पश्चिमनिष्कुटम् ॥१३४॥ चर्मणा प्राग्वदुत्तीर्य, सिन्धुं म्लेच्छान् विजित्य च । उपात्तदण्ड: सगरं, प्रणनाम चमूपतिः ॥१३५॥ तत्र चक्री चिरं स्थित्वोत्तरपूर्वाऽध्वना ततः । चक्रानुगोऽव्रजत् क्षुद्रहिमवन्तं गिरिं प्रति ॥ १३६॥ नितम्बे दक्षिणे चास्य, शिबिरं न्यस्य शस्यरुक् । अष्टमं पौषधयुतं, प्रपूर्य रथमाश्रयत् ॥१३७॥ गर्वाद्रिर्हिमवन्तं त्री, रथाग्रेण प्रहत्य च । अक्षैप्सीत् क्षुद्रहिमवत्कुमारं प्रति सायकम् ॥१३८॥ द्वासप्ततिं योजनानि, सोऽतिलङ्घ्य झटित्यपि । पत्री पत्रीव हिमवत्कुमारस्यासदत् सदः ॥१३९॥ तस्येषोः पुरतः पाताद्, भ्रकुटीघटितालिकः । शान्तात्मा हिमवानासीत्तत्र चत्र्यभिधेक्षणात् ॥१४०॥ क्षणाद्विहायसाऽभ्येत्य, वदन् जय जयेत्यसौ । पद्मद्रहोदकं सर्वोषधीर्गोशीर्षचन्दनम् ॥१४१॥
देवदूष्याणि रत्नालङ्करणानि शरं च तम् । सुरद्रुपुष्पमालाश्च, ढौकयामास चक्रिणे ॥१४२॥ युग्मम् ॥
श्रितं सेवन्तं विसृज्यर्षभकूटाचलं नृपः । गत्वा जघान त्रीन् वारान्, रथाग्रेणोग्रविक्रमः ॥१४३॥
३०३