________________
३०२
श्रीअजितप्रभुचरितम् सर्गः-४ मुसलाकारधाराभिर्वर्षणे प्रकृतेऽथ तैः । पस्पर्श पाणिना [चक्री], चर्मरत्नं सपत्नभित् ॥१२२॥ तच्च सद्योऽपि विस्तीर्णं, यावद् द्वादशयोजनीम् । जलोपरिस्थं पोताभमारोहत् सबलो नृपः ॥१२३॥ तथैव विस्तृतं छत्ररत्नमूर्द्ध तु चर्मणः । निधाय च्छत्रदण्डान्ते, मणिरत्नं न्यवेशयत् ।।१२४।। मणिध्वस्ततमःस्तोमं, छत्र-चर्मान्तरे स्थितम् । तत्सैन्यं स्वौकसां नैवाऽस्मरत् क्लेशकणोज्झितम् ॥१२५।। उप्तां प्रगे चर्मरत्ने, धान्य-शाक फलावलिम् । सायं पचेलिमां प्रत्यावासं गृहपतिर्ददौ ॥१२६।। वर्षत्स्वखण्डधाराभिः, शश्वमेघमुखेष्वथ । सप्ताहोरात्रविगमे, चक्री यावदभूत् सरुट् ॥१२७।। तावत् सान्निध्यकृद्यक्षसहस्राः षोडश द्रुतम् । चक्रिचित्तविदः क्रुद्धा, वर्मिताः शस्त्रपाणयः ॥१२८॥ उपेत्य मेघवदनानभ्यधू 'रे दुराशयाः ! । सगरचक्रिणि किमारब्धमायतिदारुणम् ? ॥१२९।। यात यात द्रुतं दूरे, कुशलाकाङ्क्षिणो यदि । नो चेत् कुष्माण्डभेदं वो, भेत्स्यामो लीलया रयात् ।।१३०।। ततो मेघमुखा भीताः, संहृतस्तनयित्नवः । प्रणश्याऽगुः किरातांश्चाऽभ्यधुर्जय्यो न चक्रभृत् ॥१३१।। किरातास्ते ततो रत्न-वस्त्र-काञ्चन-वाजिनः । प्राभृतीकृत्य सगरं, चक्रिणं शरणं ययुः ॥१३२॥