________________
सगरचक्रिणः षट्खण्डसाधनम्
३०१
'स्मर्यन्ते हि सुरा एव, महाकृच्छ्रागमे नृभिः' । एवमालोच्य ते सर्वे, भेजुः सिन्धुनदीतटम् ॥११२॥ तत्रोत्तानास्त्य॑क्तचेलाः, सिकता[स्रस्त]रस्थिताः । स्मृत्वा मेघमुखान् गोत्रगीर्वाणांस्तेऽष्टमं व्यधुः ॥११३॥ जातासनकम्पास्ते[ऽथ], देवा नागकुमारकाः । विज्ञायाऽवधिनाऽभ्येत्य, तानूचुर्वियति स्थिताः ॥११४।। 'हे वत्सा ! दुष्करमिदं, युष्माभिः क्रियते कुतः ?' । तेऽप्यभ्यधुरयं कश्चिदेवलेपं लुलोप नः ॥११५॥ शरण्यान् शरणं प्राप्तास्तेन युष्मानिमे वयम् । तथा कुरु ध्वंसो यथा, यात्यायाति च नो पुनः' ॥११६।। ऊचुर्मेघमुखा 'वत्सा !, धद्ध्वे विक्रमिमानिनः । शरभा इव जीमूते, गर्जामस्मिन् वृथा रुषम् ॥११७|| न सुरैर्नाऽसुरैश्चापि, न नरैर्न च खेचरैः । चक्रवर्ती ह्ययं जय्यः, सुत्रामसमविक्रमः ॥११८।। चक्रपाणिमुपद्रोतुं, क्षमो वह्निन नोदकम् । न शस्त्रं न विषं विद्या-मन्त्र-तन्त्रादयोऽपि न ॥११९।। तथापि वः स्वभक्तानामुपरोधेन चक्रिणः । विघ्नमात्रं विधास्याम', इत्युक्त्वा ते तिरोऽभवन् ॥१२०॥ ततश्चक्रधरानीकस्योद्धतैर्दुर्दिने कृते । घोरध्वान्तनिरुद्धाक्षा, आसन् जात्यन्धवज्जनाः ॥१२१॥ १. त्यक्तवस्त्राः । २. गर्वम् ।