SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०० श्री अजितप्रभुचरितम् सर्ग :-४ दण्डादण्डि कुन्ताकुन्ति, गदागदि शराशरि । यष्टीयष्ट्यस्यसि युद्धं, चक्रुः सैन्यद्वयीभटाः ॥ १०२॥ आपातैर्विक्रमं बाढं तन्वद्भिश्चक्रिणश्चमूः । विक्रान्ताऽपि प्रतिपदमासादितजयाऽपि च ॥१०३॥ वित्रस्तहास्तिका नश्यदश्वीया रुग्णरथ्यिका । पलायमानपादाता, क्षणादेव व्यधीयत ॥ १०४ ॥ युग्मम् ॥ चमूनाथोऽथ सैन्यं स्वं प्राप्तदैन्यं विलोकयन् । क्रोधदष्टाऽधरो वाजिरत्नं जयमिवाऽङ्गिनम् ॥१०५॥ आरुह्य पाणिविलसदसिरत्नो रिपून् जवात् । हूंरवानिव हैर्यक्षः, प्रणिहन्तुमधावत ॥१०६॥ युग्मम् ॥ बलिना बलनाथेन, ते वराकाः किरातकाः । केचिद्धताः केचिदपि, पातिता नाशिताः परे ॥ १०७॥ निर्विषोरगवत् कामं, क्षीणदर्पास्ततश्च ते । दूरे [ प्र] णश्य सम्भूय, मिथ एवं बभाषिरे ॥ १०८॥ 'अहो ! केनाप्यनेनोच्चैर्लोकोत्तरतरस्विना । अभूतपूर्वा मानस्य, म्लानिराविष्कृताऽद्य नः ॥ १०९ ॥ सैन्येऽस्य पत्तिरेकैकोऽप्यमेयस्थामशेवधिः । न जेयोऽस्माभिरौर्वाग्निरिवाऽम्भोभिर्घनैरपि ॥ ११०॥ जीवन्तोऽपि मृता अद्य, हितमाना म्रियामहे । यद्वा छेत्तुं रिपूनाराधयामो गोत्रदेवताः ||१११ || १. भग्नरथ्यिका । २. शृगालान् । ३. सिंहः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy