________________
सगरचक्रिणः षट्खण्डसाधनम्
अथोन्मग्ना-निमग्नाख्ये, गुहाप्राग्भित्तिनिर्गते । स प्राप निम्नगे प्रत्यग्भित्तिमध्येन सिन्धुगे ॥९२॥ उपलोऽपि तरेत् क्षिप्त, उन्मग्नायामलाबुवत् । अलाब्वपि निमग्नायां, शिलेव च निमज्जति ॥९३।। सद्यो वर्द्धकिसङ्क्लृप्तपद्ययोत्तीर्य ते क्रमात् । चक्री प्राप गुहोदीच्यद्वारमुद्घाटितं स्वयम् ॥१४॥ पुरःसरेण चक्रेण, कम्पयन् वैरिणां कुलम् । निर्जगाम गुहामध्यात्, सगरः सैन्यसंयुतः ॥९५।। पृथ्वीपांसुभिरुद्भूतैस्तिमिराद्वैतकल्पकम् । तन्वानं तुमुलैः शब्दाद्वैतमद्वैतविक्रमम् ॥९६।। दृश्यस्वर्णध्वजव्यूह, व्यक्तशस्त्रोज्ज्वलद्युति । दुर्निवारं क्षयक्षुब्धाऽम्भोधिवत् सागरं बलम् ॥९७॥ उदीच्यभरताऽर्धान्तःखण्डदेशान् समन्ततः । उपद्रवत् समालोक्य, ज्वलितक्रोधपावकाः ॥९८|| आपाता इति विख्याताः, किराताः प्रस्फुरन्मदाः । प्रागदृष्टपराभूतिभावाः श्रीभरशालिनः ।।९९॥ अरे ! कोऽयमकाण्डेऽपि, मुमूर्षुर्दण्डघाततः । सुप्तं व्यालं बोधयतीत्यवज्ञागर्भगीर्भराः ॥१००॥ आप्तैरिव मुहुर्वामनिमित्तैर्वारिता अपि । अभूवन् सम्मुखा योद्धमुद्भूतो रहेतयः ॥१०१।। षड्भिः कुलकम् ॥ १. मार्गेण । २. नद्यौ । ३. सगरसम्बन्धि ।