________________
२९८
श्रीअजितप्रभुचरितम् सर्ग :-४
दूरदूरागतै राजहंसैः सेव्यपदाम्बुजः । तत्रैवाऽस्थाच्चिरं चक्री, गुरुभाग्यामृताम्बुधिः ॥ ८१ ॥
चक्रिणाऽऽदिश्यताऽन्येद्युस्तमिस्रायाः कपाटयो: । उद्घाटनाय सेनानीर्विलसद्दण्डकुञ्चिकः ॥८२॥
गुहोपान्त्यं च स प्राप्य, कृतमालसुरं प्रति । चक्रे तपोऽष्टमं श्रेयः, किं नु स्यात्तपसा विना ? ॥८३॥
अष्टमान्ते कृतस्नान:, सद्वासा धूपमुत्क्षिपन् । प्रणनाम गुहां गत्वा, कपाटौ कपटोज्झितः ॥८४॥ तत्राऽष्टाहीमहं कृत्वा, लिखित्वा चाऽष्टमङ्गलीम् । अपसृत्येषदररी, दण्डेन त्रिरहन् बलात् ॥८५॥ तत्कपाटयुगं वज्रमयं व्यघटत द्रुतम् । न्यवेदयच्च सेनानीः, सगराय महीभुजे ॥ ८६ ॥ ततः सैन्यान्वितश्चक्री, कुम्भिरत्नस्य दक्षिणे । कुम्भे न्यस्य मणीरत्नं, तेजसा घुमणीयितम् ॥८७॥ पञ्चाशद्योजनायामां तां गुहां चक्रमार्गगः ।
विवेश क्लेशरहितः, केसरीवाऽस्खलद्गतिः ॥८८॥ युग्मम् ॥ रत्नेन काकिणीनाम्ना, गुहाभित्त्योर्द्वयोरपि ।
एकैकं मण्डलं चक्री, योजने योजनेऽलिखत् ॥८९॥
विष्कम्भा-ऽऽयामतस्तेषां मानं पञ्चधनुःशती । [उद्] द्योतस्तु यो[ज]नानि द्वादश तिर्यक् तमिस्रभित् ||१०||
तान्येकहीनपञ्चाशत्सङ्ख्यान्याचक्रिजीवितम् ।
तिष्ठन्त्युद्घाटितं द्वारं, गुहाया अपि तिष्ठति ॥९१॥