________________
सगरचक्रिणः षट्खण्डसाधनम्
२९७
चक्रवर्त्यथ सेनान्यमर्द्धसेनापुरस्कृतम् । समादिक्षद्विजेतुं द्राक्, पश्चिमं सिन्धुनिष्कुटम् ॥७१॥ ततः सेनापतिः प्रौढपौरुषो नीतिवित्तमः । महासिन्धुरमारूढः, प्रोल्लसच्छत्रचामरः ॥७२॥ चतुरङ्गेण सैन्येनाऽन्वितोऽरिक्ष्माधराऽशनिः । पार्श्व सिन्धुप्रवाहस्य, समवापदुपायवित् ॥७३॥ युग्मम् ॥ अथ स्वपाणिना स्पृष्ट्वा, सेनान्या सरिदन्तरे । क्षिप्तं प्रवृद्धिमच्चर्मरत्नं बेडातुलां दधौ ॥७४।। तेनोत्तीर्य च सिन्धुं द्राक्, सेनानी: सह सेनया । सिंहलान् बर्बरानन्यानप्युपाद्रवदुद्धरः ॥५॥ व्यजेष्ट यवनद्वीपं, वैताढ्योपत्यकागताः । नानाविधा म्लेच्छजातीः, कच्छदेशं च सोऽग्रहीत् ॥७६।। म्लेच्छा एवं विदलितमाना म्लानाननाम्बुजाः । वयं ते पत्तयोऽत्र स्म, इति दीनोल्लसगिरः ॥७७।। हस्त्यश्व-रथ-सद्वस्त्र-रत्न-स्वर्णादि सुन्दरम् । वस्तुवृन्दं चमूभत्रे, प्राभृतीचक्रुरादरात् ॥७८|| युग्मम् ॥ स एवं स्ववशीकृत्य, विधिज्ञः सिन्धुनिष्कुटम् । सिन्धुं प्राग्विधिनोत्तीर्य, समागाच्चक्रिणोऽन्तिके ॥७९॥ म्लेच्छेभ्य आहृतं दण्डं, ढोकयन् दण्डनायकः । अन्नक्रमनसा चक्रभृता भृशमशस्यत ।।८०॥
१. नावाकारम् । २. सरलमनसा ।