________________
२९६
श्रीअजितप्रभुचरितम् सर्गः-४
अन्तेऽष्टमस्य सा रत्नासनकम्पेन सत्वरम् । प्रयुक्तावधिरायातमज्ञासीच्चक्रवर्तिनम् ॥६०॥ अथाऽऽगत्याऽन्तरिक्षस्था, सार्वभौम ! चिरं जय । अद्य प्रभृति ते दासी, वरिवर्मीति [साऽब्रवीत् ॥६१॥ [सहस्रं रत्नकुम्भानामष्टोत्तरं च भूभुजे । रत्नभद्रासनद्वन्द्वं, वस्त्रालङ्करणान्यदात्] ॥६२॥ [प्रतिगृह्याऽथ तत्सर्वं, सादरं च विसृज्य ताम्] । चक्रे [ऽष्टाहानि तस्याः स], शक्रस्पद्धिमहामहः ॥६३।। अथैशान्यां चलच्चक्रमनुगच्छन् महीपतिः । प्राप वैताढ्यशैलस्य, नितम्बं दक्षिणं क्रमात् ॥६४॥ तत्र विन्यस्तशिबिरं, चक्रिणं तं कृताष्टमम् । कम्प्रासनो वैताढ्याद्रिकुमारः समुपेयिवान् ॥६५॥ रत्नैर्भद्रासनैर्वस्त्रैरचित्वाऽसौ नरेश्वरम् । चिरं जीव चिरं नन्देत्याशीभिर्मुहुरस्तवीत् ॥६६॥ [तं विसृज्य ततश्चक्री, क्लृप्तपारणकक्रियः । तमिस्राह्वगुहाऽऽसन्ने, पताकिनी न्यवेशयत्] ॥६७|| [कृतमालाभिधो देवोऽष्टमान्तेऽथ समागतः । चक्रिणमवदत् स्वामिन् !], भृत्यं मन्येत भक्तितः ॥६८॥ नेपथ्यजातं तिलकचतुर्दशमनुत्तरम् । स्त्रीरत्नोचितमन्यच्च, वस्त्रगन्धादिपुष्कलम् ॥६९॥ प्रसत्त्या प्राभृतं सर्वमुररीकृत्य चक्रभृत् । सम्भाष्य तं विससर्ज, ततश्चाष्टाह्निकां व्यधात् ॥७०॥ युग्मम् ॥