________________
सगरचक्रिणः षट्खण्डसाधनम्
२९५
मागधेशितुरष्टाहान्यथ कृत्वा महामहम् । चक्रदर्शितमार्गेण, प्रतस्थे दक्षिणां प्रति ॥४९॥ अपाक्पश्चिममार्गेण, व्रजन्नद्भुतविक्रमः । विपक्षविषभृत्तायो, दक्षिणाब्धेस्तटं ययौ ॥५०॥ तत्र वर्द्धकिसङ्क्लृप्तशिबिरः पौषधौकसि । वरदामानमुद्दिश्य, पौषधेऽस्थात् कृताष्टमः ॥५१॥ बाणक्षेपादिविधिना, वरदामसुरं ततः । मागधेशमिवाऽकार्षीत्, स्ववशं वशिनां वरः ॥५२॥ मुक्ताकलाप-केयूर-किरीट-कटकादिकम् । सार्वभौमाय दत्त्वाऽसौ, स्वास्पदं सत्कृतोऽगमत् ॥५३।। वरदामकुमारस्य, विधायाऽष्टाह्निकोत्सवम् । चक्री चक्रानुगोऽचालीदथाऽऽशां पश्चिमां प्रति ॥५४॥ दासितानेकभूपालः, पश्चिमाम्भोनिधेस्तटम् । प्राप्तः प्रभासतीर्थेशम भि चक्रेऽष्टमं तपः ॥५५॥ वशीभूतः शरक्षेपा[द्], दिक्क्रमाद्दासतां गतः । उपायनमुपादायाऽभ्यागमत् सोऽपि चक्रिणम् ॥५६॥ कटकानि कटीसूत्रं, चूडामणिमुरोमणिम् । निष्कादि च नरेशाय, दत्त्वा स्वास्पदमाप सः ॥५७|| ततश्चक्री प्रभासस्य, चक्रेऽष्टाहीमहोत्सवम् । सत्पुमांसः स्वभक्तानां, वर्द्धयन्ति हि वैभवम् ॥५८॥ अनुचक्रं ततश्चक्री, सिन्धोदक्षिणरोधसा । प्राङ्मुखः प्रचलन् सिन्धुदेवीसद्मान्तिके स्थितः ॥५९॥