________________
२९४
श्रीअजितप्रभुचरितम् सर्गः-४
-
इति जल्पन् पुरः पश्यन्निव शत्रु निजासनात् । उत्थाय कम्पयन् खड्गं, सर्वमक्षोभयत् सदः ॥३९॥ विशेषकम् ॥ वीराः सर्वेऽपि स्वस्वामिशत्रावाबद्धमत्सराः । उत्तस्थुः सत्वराः स्वस्वायुधानि दधतः करे ॥४०॥ अत्रान्तरे सायकं तं, स्वामात्येन करेऽर्पितम् । पश्यन् मागधतीर्थेशो, वर्णराजी निरैक्षत ॥४१॥ 'चक्रीह भरतक्षेत्रे, द्वितीयः सगराभिधः । सेव्यतामस्ति चेद्राज्य-जीविताभ्यां प्रयोजनम्' ॥४२॥ वाचयित्वेत्युपशान्तकोपो मागधनायकः । विधिज्ञः क्रोधदष्टोष्ठमुवाच स्वं परिच्छदम् ॥४३॥ 'भवद्भूतभविष्यद्भिर्नन्वहो मागधेश्वरैः । उपास्यः प्राभृतेनोच्चैश्चक्री विधिरयं ध्रुवः' ॥४४॥ इत्युक्त्वा स्पष्टविनयः, समं लञ्चैरनेकशः । चक्रिणं सगरं स सागुपतस्थे विहायसा ॥४५॥ तं शरं कुण्डला-ऽऽवापा-ऽङ्गद-मुक्तालतादिकम् । नेपथ्यं देवदूष्याणि, स्वतीर्थाम्भोऽतिपावनम् ॥४६।। प्राभृतीकृत्य चाऽवादीच्चक्रिणं रचिताञ्जलिः । 'अद्य प्रभृत्यहं प्राच्यामस्मि ते भृतकायितः' ॥४७॥ [युग्मम्] ततः सन्मान्य तं चक्री, विसृज्य च निजास्पदम् । आगत्य स्नानदेवार्चापूर्वं व्यधित पारणम् ॥४८॥ १. 'समः नागैरनेकशः' इति पु.प्रे. । २. भृतक इवाचरितः ।