SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सगरचक्रिणः षट्खण्डसाधनम् पूर्वाशावर्त्तिनो भूपान्, वशीकुर्वन्निति क्रमात् । चक्रयापन्मागधतीर्थं, गङ्गासागरसङ्गमे ॥२९॥ तत्र चक्रिनिदेशेन, महासौधालिबन्धुरम् । आपण श्रेणिसङ्कीर्णं, गुरुमण्डपमण्डितम् ॥३०॥ नवयोजनविस्तारं, दैर्घ्ये द्वादशयोजनम् । स्कन्धावारमयोध्याभं, वर्द्धकिः क्षण [ तो ] ऽतनोत् ॥३१॥ युग्मम् ॥ उद्दिश्य मागधतीर्थकुमारं तत्र चक्रभृत् । पौषधौकः स्थितो ब्रह्मचारी चक्रेऽष्टमं तपः ||३२|| स्त्रातस्तुर्ये दिने लम्बमानघण्टाचतुष्टयम् । अध्यारुह्य रथं तार्यैस्ताक्ष्यैरिव विराजितम् ||३३|| सेनयाऽनुगतोऽधिज्यधनुः पाणिर्महीशिता । रथचक्रनाभिदघ्ने, गत्वाऽस्थाज्जलधेर्जले ||३४|| अथ हैमनं स्वनामाङ्कं, पृषत्कं द्विषदन्तकः । व्यसृजन्मागधतीर्थकुमारं प्रति दूतवत् ॥३५॥ स पत्री द्वादशोल्लङ्घ्यं, योजनानि निमेषतः । सूत्कारमुखरोऽपप्तन्मागधेशस्य संसदि ||३६|| कृतान्तदण्डवच्चण्डं, तं काण्डं वीक्ष्य सोऽमरः । भालोत्थभ्रकुटीभीष्मः, प्रतिघस्फुरिताधरः ||३७|| २९३ 'अरे ! कः सुखसुप्तस्य, न्यधाद्यष्टिं हरेर्मुखे ? | को वा व्यापारयत् पाणि, कुधीः शेषशिरोमणौ ?' ॥३८॥ १. रथचक्रनाभिप्रमाणे । २. बाणम् । ३. क्रोधस्फुरितोष्ठः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy