SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २९२ श्रीअजितप्रभुचरितम् सर्गः -४ पुरोगवत् पुरोऽचालीच्चक्रं चक्रारिकालरुक् । द्युतिमन्दितमार्त्तण्डमुररीकृतदिग्जयम् ॥१९॥ ध्वनिः प्रयाणतूर्याणां, कल्पकालाम्बुदध्वनिम् । अनुकुर्वंस्तदा विश्वं, विश्वमक्षोभयत्तराम् ॥२०॥ सप्तधा प्रक्षरद्दानजलाश्चेलुर्मतङ्गजाः । सम्प्राप्ताश्चक्रिसेवायै, शैला इव सनिर्झराः ॥ २१ ॥ खुराग्रोद्धूतनीरन्ध्ररेणुपूरेण वाजिनः । तत्तेजो [लु]लुपुः सूरस्यापि विष्णुपदस्थितेः ॥ २२॥ रथा वरूथिनो लोलध्वजकैतवतः करैः । जयलक्ष्मीसमाहूतिं विदधाना इवाऽचलन् ||२३|| करोद्धूतायुधोऽरीणां, भीष्मः पत्तिगणोऽशुभत् । किन्नु शौर्यगुणश्चक्रिसेवार्थं बहुरूपभृत् ||२४|| चक्रानुगः सुशकुनैर्वर्द्धिष्णुकियदेतिकः । सेनान्या दण्डरत्नेन, समीकारितभूतलः ॥२५॥ क्रमान्मिलद्भिरुर्वीशैः, प्र॑वृद्धपृतनः पथि । योजनप्रमितं नित्यं, प्रयाणमकरोन्नृपः ||२६|| युग्मम् ।। कांश्चिदुन्मूलयामास, दुर्विनीतान् स भूपतीन् । नवांश्चारोपयामास, कांश्चिन्नीतिविशारदः ॥ २७॥ उत्खाय कांश्चन पुनस्तथैव प्रत्यरोपयत् । कांश्चिच्च दण्डयामास, रत्न-वारण-वाजिनः ॥२८॥ १. वर्धमानोत्साहः । २. प्रवृद्धसैन्यः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy